________________ 210 398 ] षष्ठो धान्यकाण्डः / "भृ-मू-तू-रसरि-" [ हैमोणादिसू० 716 ] इति बहुवचनादुः / गवीधुकाऽपि / आह् चगवेधुका कर्षणी स्याद् गोजिह्वा कर्षिका मता / . ] इति / एतस्या लोके 'गररी' इति प्रसिद्धिः / वन्यतिले तु जतिलः // 397 // . वन्यः-वनजस्तिलो वन्यतिलः, तत्र / जीर्यते जतिलः, “स्थण्डिल-कपिल" [ हैमोणादिसू० 484 ] इतीले निपात्यते / अरण्यजस्तिलोऽयम् // 397 // षण्ढतिले तिलपिञ्जस्तिलपेजः षण्डः-निष्फलस्तिलः षण्डतिलः, तत्र / निष्फलस्तिलः तिलपिजः। 10 तिलपेजः, “निष्फले तिलात् पिञ्ज-पेजौ" [ सिद्ध 0 7.2.154 ] इति तिलशब्दाद् निष्फले वर्तमानात् पिञ्ज पेज इत्येतौ प्रत्ययौ। “पिञ्ज-पेजशब्दौ निष्फलार्थाविति तिलविषयौ” इति चान्द्राः / आह च तिलपूतस्तिलफलस्तिलपिञ्जोऽपरः सितः / यस्तिलो वनजातः स्यात् [. ] इति / एतयोलोंके 'श्यामतिल' 'श्वेततिल' इति प्रसिद्धिः।। अथ सर्षपे। कदम्बकस्तन्तुभः सरति सर्षपः, “सर्तेः षपः" [ हैमोणादिसू० 313 ] इति षपः प्रत्ययः, तत्र / कुत्सितमम्बते-शब्दायते कदम्बकः / तोतुभ्यते तन्तुभः, पृषोदरादित्वात् 20 साधुः / आह च--- सर्षपः कटुकः स्नेहो भूतन्नो राजिकाफलः / तन्तुभोऽन्यः समुद्दिष्टः सिद्धार्थः श्वेतसर्षपः // ] इति / .