________________ 216 सटीके निघण्टुशेषे [ श्लो० ३९६यवनाले तु योनलः / जूर्णाहयो देवधान्यं जोन्नाला बीजपुष्पिका // 396 // यवस्येव नालमस्य यवनालः, तत्र / यूयते योनलः, "मुरलोरल-" [ हैमोणादिसू० 474 ] इत्यले निपात्यते / “जूरैचि जरायाम्" जूर्यते जूर्णा, "डीय5 श्व्यैदितः-' [ सिद्ध 0 4.4.61 ] इति क्तेऽनिट्त्वम् , जूर्ण इत्याह्वयोऽस्य जूर्णा वयः। देवप्रियं धान्यं देवधान्यम् / जुनद् नालमस्या जोन्नाला, पृषोदरादित्वात् / बीजाकारं पुष्पमस्या बीजपुष्पिका / एतस्य लोके 'जुवारि' इति प्रसिद्धिः // 396 // शणे भङ्गा मातुलानी स्यात् शणति शणम् , तत्र / भज्यते भङ्गा / मा तोल्यते मातुलानी, “मुमु10 चान-" [ हैमोणादिसू० 278 ] इत्याने निपात्यते; मायाः-श्रियस्तुलया अनितीति वा / आह चशणः प्रोक्तो मातुलानी जन्तुतन्तुर्महाशणः / ] इति / एतस्य लोके 'सण' इति प्रसिद्धिः / ___ उमा तु क्षुमाऽतसी। अव्यते उमा, “अवेह्रस्वश्च-" [ हैमोणादिसू० 342 ] इति किति मे साधुः। क्षौत्यनया भुक्तया क्षुमा, "क्षु-हिन्यां वा” [ हैमोणादिसू० 341 ] इति किन्मः / अतत्यनया अतसी, "तप्यणि-" [ हैमोणादिसू० 569 ] इत्यसः, न तस्यतीति वा / आह च20 अतसी मसृणा नीलपुष्पी चेलुरुमा क्षुमा / ] इति। एतस्या लोके 'अलसी' इति प्रसिद्धिः / गवेधुकायां गवेधुः गूयते गवेधुका- [मुन्यन्नम् ], "गुङ ईधुक-एधुकौ” [ हैमोणादिसू० 74 ] 25 इत्यनेन एधुकः प्रत्ययः, तस्याम् / [ गवा-अम्भसा एधते गवेधुः, स्त्रीलिङ्गः, ] 1 जोर्णाला नि०॥