________________ 215 श्लो० 396 ] षष्ठा धान्यकाण्डः। 215 . सा कृष्णा मधुका 'सा' कङ्गुः कृष्णवर्णा मन्यते-कल्यते मधुका, ''कञ्चुकांशुक-" [ हैमोणादिसू० 57 ] इत्युके निपातनात् साधुः / रक्ता शोधिका रक्तवर्णा कङ्गुः शोधयति शोधिका / मुंसटी सिता। 'सिता' श्वेता कङ्गुः मुस्यते–खण्ड्यते मुसटी, “कपट-" [ हैमोगादिसू० 144 ] इत्यटे निपात्यते / पीता माधवी पीतवर्णा कङ्गुः मधुन इवेयं तद्वर्णत्वाद् माधवी, "तस्येदम्" [ सिद्ध० 10 6.3.160 ] इत्यण् / ' अथोद्दाले कोद्रवः कोरदूषकः // 395 // ___ उद्दाल्यते उद्दालः, तत्र / केन-अम्भसा उनत्ति-क्लिद्यते कोद्रवः, “कैरव-भैरव-" [ हैमोणादिसू० 519 ] इत्यवे निपात्यते; केन उद्रौति वा। "कुरत् शब्दे" कुरन्त्यनेन कोरदूषः, "कोरदूषा ऽऽटरूष-" [ हैमोणादिसू० 561 ] इत्यूषे निपात्यते; कोरं- 15 भक्तं दूषयति वा, स्वार्थे के कोरदूषकः // 395 // चीनके तु काककङ्गुः चीयते चीनः, “दिन-नग्न-" [ हैमोणादिसू० 268 ] इति ने निपात्यते, के चीनकः, तत्र / काकप्रिया कङ्गुः काककङ्गुः। आह च पीततण्डुलिका कङ्गुः प्रियङ्गुः कुक्करी मता / सितकङ्गुस्तु मुसली रक्तकमुस्तु शोधिका // चीनकः काककङ्गुः स्यात् श्यामाकस्तृणबीजकः / रालादयः कङ्गुभेदाः कोद्रवः कोरदूषकः // अन्यो द्वितीयो विख्यात उद्दालो वनकोद्रवः / ] इति / 1 शोधिता न०॥ 2 मुशटी नि० // 20 35