________________ 214 सटीके निघण्टुशेषे [प्रलो० 393 स्यात् 'कुल्माषे तु यावकः // 393 // कोलति कुल्माषः, "कुलेश्च माषक्” [ हैमोणादिसू० 563 ] इत्यनेन "कुल बन्धु-संस्त्यानयोः” इत्यस्मात् किद् माषः प्रत्ययः, तत्र / कुल्मासोऽपि / यौत्यम्भसा यावकः, णकः, अर्द्धस्विन्नो माषादिः / “धान्यविशेषः" इत्यन्ये // 393 // 5 नीवारे तु वनव्रीहिः नियतैर्बियते नीवारः, 'व्युत्पन्नत्वात् , “नेषुः" [ सिद्ध० 5.3.74 ] इति घन्, तत्र / वनस्य व्रीहिर्वनव्रीहिः / आह चनीवारश्चन्द्रिका बोडी मुनिव्रीहिर्मुनिप्रियः / ] इति / 10 एतस्य लोके 'नीवार' इति प्रसिद्धिः / श्यामाक-श्यामको समौ / श्यायते श्यामाकः-जघन्यो व्रीहिः, "मवाक-श्यामाक-" [ हैमोणादिसू० 37 ] इत्याके निपात्यते / “कीचक-पेचक-" [ हैमोणादिसू० 33 ] इत्यके निपा तनात् श्यामकः / 15 कङ्गौ तु कङ्गुनी कङ्गुः प्रियङ्गुः पीततण्डुला // 394 // इत आरभ्य सर्वे कङ्गुविशेषा ज्ञेयाः / कायति कङ्गः, “प्री-कै-पै-नीलेरॉक्" [ हैमोणादिसू० 761 ] इति किदङ्गः, तत्र / “कगे रगे लगे सङ्गे” कगति कानी, "दिन-नग्न-" [ हैमोणादिसू० 268 ] इति ने निपात्यते / कुत्सितं अमति-गच्छति कङ्गः, “फलि-वल्यमेर्गुः" [ हैमोणादिसू० 758 ] इति गुः / 20 "प्रींग्श् तृप्ति-कान्त्योः” प्रीणाति प्रियङ्गः, “प्री-कै-पै नीलेरॉक्" [हैमोणादिसू० 761] इत्यङ्गुक् / पीतास्तण्डुला अस्याः पीततण्डुला / एते स्त्रीलिङ्गाः // 394 // 1 'कुल्मासस्तु यावकः' इति दन्त्यसकारमयः पाठोऽभिधानचिन्तामणौ। स्वोपज्ञवृत्तौ “कोलति कुल्मासः, 'कुलेश्च मासकू' [ हैमोणादिसू० 563 ] / कुलेन मस्यति-परिणमते वा, पृषोदरादित्वात् / कुल्माषोऽपि / '' इत्येवं व्याख्यातमस्ति / एतेनोपलक्षणेनैतद् ज्ञायते यद् आचार्यस्य 'माषक् प्रत्ययव 'मास'प्रत्ययोऽप्यभिमतोऽस्तीति // 2 "मुन्यनत्वात्" इत्यभिधानचिन्तामणिस्वोपज्ञटीकायाम् //