SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 393 ] षष्ठो धान्यकाण्डः। 213 "धूगश् कम्पने" इत्यस्मात् किन्मः प्रत्ययः, तत्र / सुष्ठु मन्यते सुमनः, अच् / आह च 10 गोधूमः सुमनः क्षुद्रो मधूली तु पिशीतिका। नन्दीमुखोऽल्पगोधूमो लोके सा पीसिकोच्यते // ] इति / . 5 एतस्य लोके ‘गोहूं' इति प्रसिद्धिः / वल्ले निष्पावः श्वेतशिम्बिकः // 392 // "वलि वल्लि संवरणे" वल्लते वल्लः, तत्र / निष्पूयते निष्पावः, “निरभेः पू-ल्वः' [ सिद्ध 0 5.3.21 ] इति घञ् / श्वेता शिम्बिरस्य श्वेतशिम्बिकः। 'सितशिम्बिकोऽपि // 392 // कुलत्थे तु कालवृन्तः लिवन्तः कुले तिष्ठति कुलत्थः, पृषोदरादित्वात् साधुः, तत्र / कालं वृन्तमस्य कालवृन्तः। आह चकुलत्थश्चक्रिकश्चक्रः कुलाली ] इति / 15 एतस्य लोके 'कुलथी' इति प्रसिद्धिः / ___ताम्रवृन्ता कुलस्थिका। तानं वृन्तमस्याः ताम्रसन्ता / ह्रस्वः कुलथः कुलत्थिका / एतस्य विशेषोऽयम् / आढक्यां तूवरी वर्णा 20 आढौकते आढकी, “कीचक-पेचक-" [ हैमोणादिसू० 33 ] इत्यके निपात्यते, तस्याम् / तूयते तूवरी, "नी-मी-कु-तु-चेर्दीर्घश्च" [ हैमोणादिसू० 543 ] इति वरट् प्रत्ययः दीर्घश्च हस्वस्य / वर्ण्यते वर्णा / / एतस्या लोके 'तूंअरि' इति प्रसिद्धिः / 1 वः शितिविम्बिकः नि० // 2 'शितशिम्बिकः' अभिधानचिन्तामणौ। “शिता शिम्बिरस्य शितशिम्बिकः" इति स्वोपज्ञवृत्तौ।।
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy