SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ . 391 ] षष्ठो धान्यकाण्डः / 211 एतस्य लोके 'कलायरा' इति प्रसिद्धिः / अथ चणके हरिमन्थकः / "चण शब्दे" चणति दल्यमानः चणकः, 'दृ-क-न-[ है मोणादिसू० 27 ] इत्यकः, तत्र / हरिभिर्मथ्यते हरिमन्थकः / आह चचणको हरिमन्थः स्याद् वाजिमन्थोऽश्वजीवकः / ] इति / एतस्य लोके 'चिणा' इति प्रसिद्धिः / माषे तु मदनो नेन्दी वृष्यो बीजवरो बली // 389 // मीयते माषः, पुं-क्लीबलिङ्गः, “वृ-कृ-तृ-मीङ्-माभ्यः षः" [ हैमोणादिसू० 540 ] इति षः, तत्र / मदयति वृष्यत्वाद् मदनः / नन्दयत्यवश्यं नन्दी / वृषाय- 10 मैथुनाय हितो वृष्यः, “प्राण्यङ्ग-रथ-" [ सिद्ध 0 7 1.37 ] इति यः, वृष्यते तैलादिनेति "कृ-वृषि-" [ सिद्ध० 5.1.42 ] इति क्यप् वा / बीजेषु वरो बीजवरः, बीजं-शुक्रं वृणोति वा / बलं-रेतोऽस्त्यत्र बली / एतस्य लोके "उडद' इति प्रसिद्धिः // 389 // ___ मुद्रे तु प्रथनो लोभ्यो बलाटो हरितो हरिः / 15 मोदते अनेन मुद्गः, “पू-मुदिभ्यां कित्" [ हैमोणादिसू० 93 ] इति किद् गः, तत्र / प्रथते प्रथनः / “लुभच् गायें" गाय॑म्-अभिकाङ्क्षा, लुभ्यते लोभ्यः / बलमटति बलाटः। हरितः-नीलः / हरिः हरिद्वर्णत्वात् , पुंल्लिङ्गः / एतस्य लोके 'मुंग' इति प्रसिद्धिः / पीतेऽस्मिन् वसु-खण्डीर-प्रवेल-जय-शारदाः // 390 // 20 'अस्मिन्' मुद्ने पीतवर्णे वसति चित्ते वसुः, पुंल्लिङ्गः, "भृ-मृ-त-सरि-" [ हैमोणादिसू० 716 ] इत्युः / खैण्ड्यते खण्डीरः, “जम्बीरा-ऽऽभीर-" [ हैमोणादिसू० 422 ] इतीरे निपात्यते / प्रवेलत्यनेन प्रवेलः / जयत्यनेन जयः। शरदि भवः शारदः, “भर्तु-सन्ध्यादेरण" [ सिद्ध० 6.3. 89 ] इत्यण् // 390 // __ कृष्णे प्रवर-वासन्तौ हरिमन्थज-शिम्बिकौ।। 1 "न्दी सरी बीज नि. / / 2 प्रघनो लोभ्यो वलाटो नि० // 3 “खन्यते खण्डीरः" इति अभियान स्वोपज्ञटीकायाम् // 4 °सन्त-हरिमन्थज-शिम्बिकाः नि० // 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy