________________ 385 ] 207 पञ्चमस्तृणकाण्डः लामज्जकं सुनालं स्यादमृणालं लयं लघु / इष्टकापथकं शीतवीर्यं मूलं जलाशयम् // [ धन्व० वर्ग 3 श्लो० 86 ] इति / अमरोऽप्याह नलदं सेव्यममृणालं जलाशयम् // लामज्जकं लघु लयमवदाहेष्टकापथे / [ का० 2 वर्ग 4 श्लो० 164-65 ] इति / एतस्य लोके 'लावंजउ' इति प्रसिद्धिः // 385 // इति श्रीमबृहत्खरतरगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागरमहोपाध्यायपट्टानुक्रमायातवाचनाचार्यधुर्यश्रीभानुमेरुगणिशिष्यसमस्तप्रशस्तग्रन्थावलीविचक्षणश्रीज्ञानविमलोपाध्यायशिष्यवाचनाचार्यश्रीश्रीवल्लभगणिविरचितायां श्रीहेमचन्द्राचार्यकृतनिघण्टुशेषटीकायां तृणकाण्डः पञ्चमः समाप्तः॥५॥