________________ 206 . सटीके निघण्टुशेषे [ श्लो० ३८४एतस्य लोके 'काकरहूले' इति प्रसिद्धिः // 383 // वीरणे तु वीरतरं वीरभद्रं सुमूलकम् / वीरयते वीरणम् , अनट् , तत्र / अतिशयेन वीरं वीरतरम् / वीरं च तद् भद्रं च वीरभद्रम् / शोभनं मूलमस्य सुमूलम् , के सुमूलकम् / मूलेऽस्योशीरमभयं समगन्धि रणप्रियम् // 384 // 'अस्य' वीरणस्य मूले / उश्यते-काम्यते इति उशीरम, 'सि-वशि-" [ हैमोणादिसू० 419] इति किदीरः, [पुं-क्लीबलिङ्गः] / नास्ति भयमस्मादभयम् , रोगहृत्त्वात् / समो गन्धोऽस्त्यस्य समगन्धि / रणस्य प्रियं रणप्रियम् ; रणः प्रियोऽस्येति वा / आह च सामान्येन धन्वन्तरिः उशीरं च मृणालं स्यादभयं समगन्धिकम् / रणप्रियं वीरतरं वीरं वीरणमूलकम् // [धन्व० वर्ग 3 श्लो० 14 ] इति / अमरस्तु पृथगाहस्याद् वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् / अभयम् का० 2 वर्ग 4 श्लो० 164] इति / एतस्य लोके 'उसीर' इति प्रसिद्धिः // 384 // लामजके तु नलदममृणालं लेयं लघु। इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् // 385 // // इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे 20 पञ्चमस्तृणकाण्डः // 5 // लाति दोषान् ला, मज्जा-सारोऽस्य लामज्जकम् , तत्र / नलं द्यति नलदम् , अपारुष्यात्; नलति वा / अत एव अमृणालम्-अहिंस्रम् / लीयते लयम्। "लघु गुणेन" इति क्षीरस्वामी; "लङ्घते लघु" इत्यपरे, “रवि-लचि-" [ हैमो णादिसू० 740 ] इत्यादिना उः प्रत्ययः नकारस्य च लोपः / इष्टं कापथमस्य, 25 अधोवातकृत्त्वादिति इष्टकापथम् , स्वार्थिके के इष्टकापथकम् / शीघ्रं लघुत्वात् / दीर्घ मूलमस्य दीर्घमूलम् / जले आशेते जलाशयम् ; शीतवीर्यत्वाद्वा / आह च-- 1 लवं नि० //