________________ 10 353] पञ्चमस्तुणकाण्डः / 205 राजा चासौ कशेरुश्च राजकशेरुः, स्वार्थिके के राजकशेरुकः / मुस्तः पुंसि / वियते वृणोति वा वराहः, "वृ-कटि-शमिभ्य आहः” [ हैमोणादिसू० 591 ] इत्याहः / गङ्गाया अपत्यमिव गाङ्गेयः, शुभ्रादित्वादेयण् / क्लीबेऽप्यन्ये / कुरून् देशं विन्दति कुरुविन्दः / अम्बुदस्याऽऽहयोऽस्या अम्बुदाहया / आह च-- मुस्तमम्बुधरो मेघो घनो राजकशेरुकः / भद्रमुस्तो वराहोष्ट्रो(?ऽब्दो) गाङ्गेयः कुरुविन्दकः // [धन्व० वर्ग 1 श्लो० 40 ] इति / एतस्या लोके 'मोथ' इति प्रसिद्धिः // 381 // कुटन्नटे तु कैवर्तीमुस्तकं जीविताह्वयम् / काण्डीरकं जीर्णबुध्नं गोनदै गोपुरं प्लवम् // 382 // शतपुष्पं दोशपुरं वानेयं परिपेलवम् / जलमुस्ता मुस्तकाभं शेवालदलसम्भवम् // 383 // कुटन्-वक्रीभवन् नटति-स्पन्दते कुटनटः, तत्र / 'तुः' अत्र विशेषार्थेऽव्ययम् / कैवा मुस्तकं कैवर्तीमुस्तकम् / जीवितस्य आह्वयोऽस्य जीविताहयम् / काण्डीमीरयति काण्डीरकम् / जीर्ण बुध्नमस्य जीर्णबुध्नम् / गवि नर्दतीव गोनर्दम् / 15 अत एव गाः पिपर्ति गोपुरम् , गुप्यते वा, "श्वशुर-" [ हैमोणादिसू० 426 ] . इत्युरे निपात्यते / प्लवते लघुत्वात् प्लवम् , अच् // 382 // शतं-बहूनि पुष्पाण्यस्य शतपुष्पम् / दशपुरे भवं दाशपुरम् ; दाशान् पिपर्ति वा, "श्वशुर-" [ हैमोणादिसू० 426 ] इत्युरे साधुः / वने भवं वानेयम् , "भवे" [ सिद्ध 06.3.123 ] इत्येयण् / “पेल गतौ” परि-सामस्त्येन पेलति 1) परिपेलवम् , "वडि-वटि-पेल-चणि-पणि-पल्लि-वल्लेरवः” [ हैमोणादिसू० 515] इत्यवः / जलस्य मुस्ता जलमुस्ता / मुस्तकस्य आभाऽस्य मुस्तकाभम् / शेवालद्ले सम्भवति शेवालदलसम्भवम् / आह च--- परिपेलं प्लवं वन्यं गोपुरं स्यात् कुटन्नटम् / .. शतपुष्पं दाशपुरं गोनर्दै जीर्णबुध्नकम् // [ धन्व० वर्ग 3 श्लो० 55 ] इति / 1 गोपुरप्लवम् नि० // 2 दारपुरै नि० // 25