________________ 27 सटीके निघण्टुशेषे [श्लो० 379__ शतपर्वा शीतवीर्या शीतवल्ल्यसिता लता // [धन्व० वर्ग 4 श्लो० 143 ] इति / एतस्या लोके 'द्रोअ' इति प्रसिद्भिः / नीलीयम् / [संहस्रवीर्या श्यामाङ्गी हरिता हरिताल्पपि] // 379 // श्वेतदूर्वा तु गोलोमी शीतवीर्या सिता लता। [ सहस्रं वीर्याणि अस्याः सहस्रवीर्या / श्याममङ्गं अस्याः श्यामागी / हरिता नीलवर्णत्वात् / हरितां नीलत्वमलति हरिताली // 379 // ] श्वेता दूर्वा श्वेतदूर्वा / 'तुः' पुनरर्थे / गोरिव लोमान्यस्या गोलोमी / ___ शीतं वीर्यमस्याः शीतवीर्या / सिता शुक्ला / लाति लायते वा लता, "पृषि-रञ्जि-" 10 [ हैमोणादिसू० 208 ] इति किदतः / आह च-. श्वेतदूर्वा तु गोलोमी श्वेतदण्डी सिता लता / सहस्रवीर्याऽनन्ता च दुर्मरा भार्गवी रुहा // [धन्व० वर्ग 4 श्लो० 144 ] इति / एतस्या लोके 'श्वेतदूर्वा' इति प्रसिद्धिः / गण्डदूर्वायां गण्डाली वारुणी शकुलाक्षकः // 380 // - श्वेतदूर्वाविशेषोऽयम् / गण्डैः-ग्रन्थिभिरल्यते गण्डाली / / . . . . . . . . . वारुणी / ] शकुलस्येव अक्षि अस्य शकुलाक्षः, मत्स्याक्षितुल्यग्रन्थिः, स्वार्थिके के शकुलाक्षकः / आह च गण्डदूर्वा तु गण्डाली तीव्रा मत्स्याक्षिकाऽपि च / वल्ली नाडी कलायश्च धारणी शकुलाक्षिका // [धन्व० वर्ग 4 श्लो० 145 ] इति // 380 // मुस्तायों मुस्तको भद्रमुस्ता राजकशेरुकः। मुस्तो वराहो गाङ्गेयः कुरुविन्दोऽम्बुदाह्वया // 381 // मुस्यति–खण्डयति रोगान् मुस्ता, त्रिलिङ्गः, “शी-री-" [हैमोणादिसू० 201] 35 इति कित् तः, तत्र / मुस्त एव मुस्तकः / भद्रा चासौ मुस्ता च भद्रमुस्ता / 1 श्लो० 379 श्लोकस्योत्तरार्ध तद्वयाख्या चापि टीकादशैं नास्ति / / 2 शतवीर्या नि० // 3 'यां भद्रको भद्र नि० // 4 "रुकः / गुन्द्री वरोहो नि //