________________ 379 ] पञ्चमस्तृणकाण्डः / . 203 दिसू० 299 ] इति पः प्रत्ययः षश्चान्तादेशः, पुं-क्लीबलिङ्गः / “शुक गतौ" शोकति शुकम् , “नाम्युपान्त्य-" [ सिद्ध० 5.1.54 ] इति कः; शवति वा, "विचि-पुषि-" [ हैमोणादिसू० 22 ] इति कित् कः / शालिकम् / “अगु गतौ” अङ्गति अङ्गलम् , “ऋषि-वृषि-" [ हैमोणादिसू० 331] इति बहुवचनादुलः // 377 // तृणे स्यादर्जुनं तरत्यम्भसि तृणम् , हृद्यते-अद्यते पशुभिरिति वा, पुं-क्लीबलिङ्गः, "भ्रूणतृण-" [ हैमोणादिसू० 186 ] इति णे निपात्यते, तत्र / अयंते अर्जुनम् , "यम्यजि-शक्यर्जि-" [ हैमोणादिसू० 186 ] इत्युनः। 'सर्वं च तृणमर्जुनम्" इति भागुरिः। घासे यवसं चारिरित्यपि। घस्यते--अद्यते पशुभिर्घासः, घञ् प्रत्ययः, तत्र / यूयते यवसम् , “वहियुभ्यां वा" [ हैमोणादिसू० 571 ] इति असः, क्लीबलिङ्गोऽयम् / वाचस्पतिस्तु—“अथाऽस्त्री यवसो घासः" इति पुंस्यप्याह / “चर भक्षणे च" चर्यते पशुभिरिति चारिः, “कृ-श-कुटि-ग्रहि-खन्यणि-" [ हैमोणादिसू० 619 ] इत्यादिना णिदिः। दूर्वायां तु शतपर्वा भार्गवी विजया जया // 378 // मङ्गल्या शाहलाऽनन्ताऽमरी प्रतानिका रहा। दूर्व्यते-हिंस्यते पशुभिरिति दुर्वा; दूरे वाति वा, पृषोदरादित्वात् साधुः, तस्याम् / शतं बहूनि–पर्वाण्यस्याः शतपर्वा / भृगोरियं भार्गवी, "तस्येदम्" [ सिद्ध० 6.3.160 ] इत्यण् / विजयते विजया / जयति जया // 378 // 30 मङ्गले साधुः मङ्गल्या, “तत्र साधौ” [सिद्ध 0 7.1.15 ] इति यः / शादाः सन्त्यस्याः शावला, "नड-शादाद् वलः" [ सिद्ध० 6. 2. 75 ] इति वलः / नास्ति अन्तोऽस्या अनन्ता, दूरप्रसरणात् / न म्रियते अमरी / प्रतानोऽस्त्यस्याः प्रतानिका / रोहति मूले रुहा, "नाम्युपान्त्य-" [सिद्ध० 5.1.54 ] इति कः / आह च 25 नीली दूर्वा स्मृता शस्या शावलं हरितं तथा / 1 तृण्यते-अद्यते पशुभिरिति वा” इति अभिधानचिन्तामणिस्वोपज्ञटीकायाम् // 15