________________ 202 . सटीके निघण्टुशेषे नेली तु ग्रामनलिका नाकुली लेखकाविता // 375 // गौरादित्वाद् ङ्यां नली / 'तुः' पुनरर्थे / ग्रामस्य नलिका ग्रामनलिका / नकुलानामियं नाकुली, "तस्येदम्" [ सिद्ध 0 6.3.160 ] इत्यण् ; न आकुलयति वा, नखादित्वान्नोऽदभावः / लेखकैरविता-रक्षिता लेखकाविता // 375 // शरे तु मुञ्जो बाणाख्यः स्थूलदर्भः पितामहः / गुन्द्रस्तेजनको भद्रमुञ्जो याजनकः क्षुरः // 376 // शृणाति पारुष्यात् शरः, अच् , तत्र / मुञ्जति-शब्दायते वायुना मुजः। बाणस्य आख्या अस्य बाणाख्यः। स्थूलश्चासौ दर्भश्च स्थूलदर्भः / पितामहः। गुणैर्दोषा द्रान्त्यस्मिन् गुन्द्रः, पृषोदरादित्वात् / “गुन्द्रो दर्भविशेषः 10 रूढः" इति क्षीरस्वामी / यदाहुः दर्भाणां स्थाने शरैः प्रस्तरितव्यम् / यदमरश्चगुन्द्रस्तेजनकः शरः [ का० 2 वर्ग 4 श्लो० 162 ] इति / तेजयति-शिनोति तेजनः, स्वार्थिके के तेजनकः / भद्रश्चासौ मुनश्च 15 भद्रमुरुजः। याजनको यज्ञियत्वात् / क्षुरति क्षुरः। आह च शरो बाण इक्षुकाण्डः इक्ष्वटः सायकः क्षुरः / स्थूलोऽन्य इक्षुरः प्रोक्त इक्ष्वारश्च पितामहः // [धन्व० वर्ग 4 श्लो० 135 ] इति / एतस्य लोके 'शरकड' इति प्रसिद्भिः // 376 // 20 मुञ्जस्तु यज्ञियो मेध्यो दृढत्वग ब्रह्ममेखलः। 'तुः' पुनरर्थे / यज्ञाय हितो यज्ञियो मुञ्जो मेध्यः, पवित्रत्वात् / दृढा त्वगस्य दृढत्वक् / ब्रह्मणो मेखलेव ब्रह्ममेखलः / अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् // 377 // बाल-नवं तृणं बालतृणम् , तत्र / “शष हिंसायाम्" शष्यते शष्पम् , 25 "शलू शातने" शीयते वा शष्पम् , "शदि-बाधि-षनि-हनः ष् च" [ हैमोणा 1 नलिनुम मि० // 2 लेखकाञ्चिता नि० // 3 गुञ्जस्तजनको नि० // 4 'नकक्षुरः नि० //