________________ पञ्चमस्तुणकाण्डः / 201 पुण्ड्रेक्षौ पुण्डूकः सेव्यः पौण्डूकोऽतिरसो मधुः / श्वेतकाण्डो भीरुकस्तु हरितो मधुरो महान् // शून्येश्वरस्तु कान्तारः कोषकारस्तु वंशकः / शतधोरस्त्वीषत्क्षारः पीतच्छायोऽथ तापसः // सितनीलोऽथ नेपालो वंशप्रायो महाजलः / अन्वर्थस्तु दीर्घपत्रो दीर्घपर्वा कषायवान् // काष्ठेक्षुस्तु स्वैल्पकाण्डो घनग्रन्थिर्वनोद्भवः / नीलघोरस्तु सुरसो नील-पीतलराजिवान् // अनूपसम्भवः प्रायः खैनटी त्विक्षुवालिका / करङ्कशालिः शाकेक्षुः सूचिपत्रो गुडेक्षुकः // ] इति / नले नडः शून्यमध्यो धमनो नर्तको नटः // 374 // औरण्यनलको रन्ध्री पोटगलो बिभीषणः। नलति-अर्दयति नलः, तत्र, ड-लयोरैक्ये नडः, पुं-क्लीबलिङ्गौ / शून्यो मध्ये शून्यमध्यः। धमिः सौत्रः, धमत्यन्तःशुषिरत्वाद् धमनः / नृत्यतीव नर्तकः, णकः / 15 नटति नटः // 374 // आरण्यश्चासौ नलकश्च आरण्यनलकः / रन्ध्रमस्त्यस्य रन्ध्री / पोटेन-संश्लेषेण गलति पोटगलः। भीषि, बिभीषयते विभीषणः, “नन्द्यादिभ्योऽनः" [ सिद्ध 0 5.1.52 ] इत्यनः / आह च नलो नडो नटश्चैव स च पोटमलः स्मृतः / धमनी नर्तको रन्ध्री शून्यमध्यो बिभीषणः // धन्व० वर्ग 4 श्लो० 141 ] इति / एतस्य लोके 'नलु' इति प्रसिद्धिः / 1 'ह्रस्वकाण्डो' इति अभिधानचिन्तामणिस्वोपज्ञटीकायां वाचस्पत्युद्धरणे पत्र 482 // 2 “खर्वटी" इति अभि०स्वोपज्ञटीकायां वाचस्पत्युद्धरणे पत्र 482 // 3 "गुडेक्षषः'' इति अभिधान स्वोपज्ञटीकायां वाचस्पत्युद्धरणे पत्र 482 // 4 गमनो नि० // 5 अरण्य नि० //