________________ 200 सटीके निघण्टुशेष [श्लो० ३७३"काशृङ् दीप्तौ” काशते काशः, पुं-क्लीबलिङ्गः, [ तत्र ] / इक्षोरिव गन्धोऽस्य इक्षुगन्धः / इक्षोरिव काण्डोऽस्य इक्षुकाण्डः। श्यामलं पुष्पमस्य श्यामलपुष्पः, के श्यामलपुष्पकः। वायस इव इक्षुः वायसेक्षुः। पोटेन-संश्लेषण गलति पोटगलः। काशश्चासौ इक्षुश्च कासेक्षुः। कोकिलस्येव अक्षि अस्य कोकि: लाक्षः, के कोकिलाक्षकः / आह च काशः काण्डेक्षुरुद्दिष्टः काकेक्षुर्वायसेक्षुकः / इक्ष्वारक इक्षुकाण्डः स चैवेक्षुरकः स्मृतः // _ [धन्व० वर्ग 4 श्लो० 130 ] इति / एतस्य लोके 'कासु' इति प्रसिद्धिः // 372 // 10 'उलपे बल्वजा वालः केशी दृढलताऽपि च / वलति उलपः, “विशिष्टपोलप-" [ हैमोणादिसू० 307 ] इत्यपे निपात्यते, तत्र / वलन्ति बल्वजाः, पुंसि बहुवचनान्तः, “बलेोऽन्तश्च वा" [ हैमोणादिसू० 133 ] इत्यजः / वलति वाला, “वा ज्वलादि-" [ सिद्ध 0 5.1.62 ] इति - णः / केशाः सन्त्यस्य केशी / दृढा लता दृढलता। 15 इंक्षी रसालो गण्डीरी गण्डकी खड्गपत्रकः // 373 // “इषत् इच्छायाम्" इष्यते इक्षुः, पुंल्लिङ्गः, “मस्जीष्यशिभ्यः सुक्” [ हैमोणादिसू० 826 ] इति कित् सुप्रत्ययः, तत्र / रसमलति आलाति वा रसालः / गण्डीन् ईरयति गण्डीरी / गण्डकाः सन्त्यस्य गण्डकी / खड्गाकाराणि पत्राण्यस्य खड्गपत्रः, के खड्गपत्रकः। 20 एतस्य लोके 'गांडउ' 'सेलडी' इति वा प्रसिद्भिः // 373 // तस्यैकादश भेदाः स्युः पुण्डू-कान्तारकादयः। 'तस्य' इक्षोः ‘भेदाः' जातयः एकादश। पुणति पुण्ड्यते वा पुण्ड्रः, “खुर-क्षुर-" . [हैमोणादिसू० 396] इति रे निपात्यते / कौम्यते कान्तारः, "द्वार-शृङ्गार-" - [ हैमोणादिसू० 411] इत्यारे निपात्यते, [ के कान्तारकः ] / आदिशब्दात् 25 कोषकाराद्याः / यदुवाच वाचस्पतिः 1 उलपवल्वजो बालकेशी नि० // 2 ईक्ष रसालो नि० // 3 क्षुद्रपत्रकः नि. // 4 "अथेक्षुः स्याद् रसालोऽसिपत्रकः' [ अभि. का.४ श्लो. 260] इत्यत्र 'असिपत्रक' इति नामापि दृश्यते // 5 "काम्यते कान्तारः, कान्तं ऊषमियर्तीति वा, कान्ता आरा:-भागा अस्येति वा / " इत्यभिधानचिन्तामणिस्वोषज्ञटीकायाम् / /