SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 372] पञ्चमस्तृणकाण्डः / 199 त्येके। “कुटत् कौटिल्ये" कुटति कुटुम्बः, “कुटयुन्दि-चुरि-" [ हैमोणादिसू० 326] इत्यादिना किदुम्बः प्रत्ययः, स्वार्थिके के कुटुम्बकः। पुनाति पूयते वा पूतीकम् , "सृणीका-ऽस्तीक-" [ हैमोणादिसू० 50 ] इतीके निपात्यते / भवति भूरि, “भू-सूकुशि-"[ हैमोणादिसू० 693] इति किद् रिः / “पारुष्यात् पालं हन्ति पालघ्नम्" इति क्षीरस्वामी / मालारूपाणि तृणान्यस्य मालातृणम् / शोभनो गन्धोऽस्त्यस्य / सुगन्धि, के सुगन्धिकम् / आह च भूस्तृणो रौहिषो भूरिः पूतीकोऽथ कुटुम्बकः / मालातृणश्च पालघ्नं छत्रकछत्रसंज्ञकः / / [ धन्व० वर्ग 4 श्लो० 47 ] इति / एतस्य लोके 'गन्धतृण' इति प्रसिद्भिः // 370 // दर्भ दभ्रः खरो बहिर्वीरः सूची कुथः कुशः। सीरी वानीरजो गुन्द्रः पवित्र-कुतुकावपि // 37 // दृणाति पारुष्याद् दर्भः, “गृ-द-रमि-" [ हैमोणादिसू० 327 ] इति भः, दृभ्यतेऽसाविति वा, तत्र / पृषोदरादित्वाद् दभ्रः, "खुर-क्षुर-" [ हैमोणादिसू० . 396 ] इति रे निपातनाद्वा। खरः परुषत्वात् / “बृहु शब्दे च” बृंहति बहिः, पुं-क्लीब- 15 लिङ्गः, “बंहि-बुहेर्नलुक च" [ हैमोणादिसू० 990] इति इस् / विशेषेण ईरयति वीरः / सूचीव सूची, अग्रे तैदेण्यात् / “कुन्थश् संक्लेशे" कुथ्नाति कुथः, "नाम्युपान्त्य-" [सिद्ध 0 5.1.54 ] इति कः / को शेते कुशः, “कचित्" [ सिद्ध 0 5.1.171 ] इति डः, पुं-क्लीबलिङ्गः / सीरोऽस्त्यस्य सीरी, हलाकाराग्रत्वात् / वानीरे जातो वानीरजः, "क्वचित्" [ सिद्ध 0 5.1.171] इति डः / गुणैर्दोषा 30 द्रान्ति अस्मिन् गुन्द्रः, पृषोदरादित्वात् / पूयतेऽनेन पवित्रम् , "ऋषि-नाम्नोः करणे" [ सिद्ध० 5.2.86 ] इतीत्रः / कु:-भूमिस्तुद्यतेऽनेन कुतुकः ; कुत्सितं तन्यते वा, "निष्क-तुरुष्क-" [ हैमोणादिसू० 26] इति के निपात्यते / आह च मृदुदर्भः कुशो बर्हिः सूची वीरस्तु पत्रकः / खरोऽन्यः पृथुलः सीरी गुन्द्राह्वो नीरजो निशिः // [धन्व० वर्ग 4 श्लो० 133] इति / एतस्य लोके ‘डाभ' इति प्रसिद्धिः // 371 // काशे स्यादिक्षुगन्धेक्षुकाण्ड-श्यामलपुष्पकाः। वायसेक्षुः पोटगलः कासेक्षुः कोकिलाक्षकः // 372 // 1 बहिर्वा रास्तवीकुधः कुशः / सारीवानी रजो गुन्द्रा पवित्रा कुतसावपि // नि० // 2 ०ण्डश्चामरपुष्पकः नि० // 3 °किनां क्षकः नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy