________________ [ पञ्चमस्तृणकाण्डः] अथ प्रक्रमागतं तृणकाण्डं प्रतन्यते'रौहिषे श्यामकं पौरं पूतीकं भूरि कत्तृणम् / सौगन्धिकं देवजग्धं शकलं ध्याम-पुद्गले // 369 // यत्र तत्र रोहति रौहिषम् , “रुहेर्वृद्धिश्च" [ हैमोणादिसू० 548 ] इति इषः वृद्धिश्च, पुं-क्लीबलिङ्गः, तत्र / श्यामकं श्यामवर्णत्वात् / पुरे भवं पौरम् , “भवे" [ सिद्ध० 6.3.123 ] इत्यण् / पुनातीति पूतीकम् , “सृणीका-ऽस्तीक-" [ हैमोणादिसू० 50] इतीके निपात्यते / भवति भूरि, "भू-सू-कुशि-" [ हैमोणादिसू० 693] इति किद् रिः / कुत्सितं तृणं कत्तणम् ,. असारत्वात् , 10 "तृणे जातौ" [ सिद्ध 0 3.2.132 ] इति कोः कदादेशः / सुगन्धः प्रयोजनमस्य सौगन्धिकम् , “प्रयोजनम्" [ सिद्ध 0 6.4.117 ] इतीकण् / देवैर्जग्धमिव अन्तःशुषिरत्वाद् देवजग्धम् / “शक्लंट शक्तौ” शक्नोति शकलम् , “मृदि-कन्दि-" [ हैमोणादिसू० 465 ] इत्यादिना अलः प्रत्ययः / ध्यायते पशुभिामम् , "विलि-भिलि-" [ हैमोणादिसू० 340 ] इति किन्मः; धूसरवर्ण वा / पूयते पुनाति 15 वा पुद्गलम् , “मुरलोरल-" [ हैमोणादिसू० 474] इति अले निपात्यते / आह च कत्तणं शकलं भूरि पूतीकं रौहिषं मतम् / ध्यामकं श्यामकं पौरं पुद्गलं देवजग्धकम् // [धन्व० वर्ग 1 श्लो० 80 ] इति / एतस्य लोके 'रोहीस' इति प्रसिद्धिः // 369 // 3) भूस्तृणे रौहिषं छत्रोऽतिच्छत्रश्च कुटुम्बकः / पूतीकं भूरि पालघ्नं मालातृण-सुगन्धिके // 370 // भुवस्तृणः भूस्तृणः, पारस्करादित्वात् सुट् ; भूरव्ययं वा, तत्र / रोहति रौहिषम् / छत्राकारस्तृणविशेषश्छत्रः। अतिक्रान्तश्छत्रमतिच्छत्रः। छत्रातिच्छत्रमि 1 रोहिषं कामकं पौरं भूतिकं भूतिकतृणम् / स्तोगन्धिकं धिकं देवजग्धं शकलिपुद्गले // नि० // 2 भूस्तृणं रोहितं छत्रातिच्छत्रक-कटुम्बके / भूतीकं भूतिकतृणं माला नि० //