________________ 368] चतुर्थः शाककाण्डः। 197 भरति शकम्भरा, बाहुलकान्मोऽन्तः / कूयते कबरी, "ऋच्छि-चटि-वटि-" [ हैमोणादिसू० 397] इत्यरः; कबरीव वा / अत एव बर्बरी-कुटिल-हस्वकेशाभा / “तमुच् काङ्क्षायाम्" ताम्यति तुङ्गी, “कमि-तमि-शमिभ्यो डित्" [ हैमोणादिसू० 107 ] इति डिदुङ्गः / पूतिश्चासौ मयूरश्च पूतिमयूरः / आह च अजगन्धा खरपुष्पी बस्तगन्धा सुगन्धिका / कबरी बर्बरी गन्धा तुङ्गी पूतिमयूरकः / / [धन्व० वर्ग 1 श्लो० 100 ] इति / एतस्या लोके 'जहारि' इति प्रसिद्धिः // 367 // बिम्ब्यां रक्तफला गोल्हा प्रवालफलघोषिका / ओष्ठोपमफला तुण्डो तुण्डिका पीलुपर्ण्यपि // 368 // . . 10 // इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः // बध्नाति बिम्बी, “डी-नी-बन्धि-'' [ हैमोणादिसू० 325 ] इति डिदिम्बः, तस्याम् / रक्तं फलमस्याः रक्तफला। गोलं जहाति गोल्हा, पृषोदरादित्वात् साधुः / प्रवालफलं घोषति प्रवालफलघोषिका / ओष्ठोपमानि फलान्यस्या ओष्ठोषमफला / 15 "तुणत् कौटिल्ये" तुण्यते तुण्डी, “कु-गु-हु-नी-कुणि-तुणि-" [हैमोणादिसू० 170] इत्यादिना किद् डः प्रत्ययः / तुण्डमस्त्यस्यास्तुण्डिका, “अतोऽनेकस्वराद्" [सिद्ध 0 7.2.6) इति इकः; तुण्डयेव वा / पीलोरिव पर्णान्यस्याः पीलुपी / आह च बिम्बी रक्तफला तुण्डी तुण्डकेरफला च सा / ओष्ठोपमफला गोल्हा पीलुपी च तुण्डिका // [धन्व० वर्ग 1 श्लो० 202] इति / एतस्या लोके ‘गोल्ह' इति प्रसिद्धिः / 'टिडूरी' इति देशान्तरे प्रसिद्धिः // 368 // // इति श्रीमबृहत्खरतरगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागरमहोपाध्यायपट्टानुक्रमायातवाचनाचार्यधुर्यश्रीभानुमेरुगणिशिष्यसमस्तप्रशस्तग्रन्थावलीविचक्षणश्रीज्ञानविमलोपाध्यायशिष्य- 25 वाचनाचार्यश्रीश्रीवल्लभगणिविरचितायां श्रीहेमचन्द्राचार्यकृतनिघण्टुशेषटीकायां शाककाण्डश्चतुर्थः समाप्तः // 4 //