SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेजे [श्लो० ३६६कीर्यते कूर्चः, “कूर्च-चूर्चादयः" [ हैमोणादिसू० 113 ] इति चट्प्रत्यये निपात्यते, स्वार्थिके के कूर्चकः, तत्र / शृङ्गप्रतिकृतिः शृङ्गकः, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [सिद्ध 07.1.108] इति कः / सृजति रसं सर्जः / दीर्घमायुरस्माद् दीर्घायुः / कूर्चः शीर्डस्य कूर्चशीर्षः, स्वार्थिके के कूर्चशीर्षकः // 364 // मङ्गल्यं नामधेयमस्य मङ्गल्यनामधेयः। जीवयति जीवकः, णकः, प्रिय 5 मधु विद्यतेऽस्य मधुरः, “मध्वादिभ्यो रः" [सिद्ध 0 7.2.26 ] इति रः, स्वार्थिके के मधुरकः / प्राणिति प्राणकः / चिरं जीवतीति चिरजीवी / आह च जीवकः शृङ्गकः सर्जो दीर्घायुः कूर्चशीर्षकः / हस्वाङ्गो मधुरः स्वादुः प्राणकश्चिरजीव्यपि // [ धन्व० वर्ग 1 श्लो० 123 ] इति / एतस्य लोके 'जीवक' इति प्रसिद्धिः // 365 // पुष्करमूले स्यान्मूलं वीरं पुष्करनामकम् / पौष्करं पुष्करजटा काश्मीरं पद्मवर्णकम् // 366 // 15 पुष्करस्य मूलं पुष्करमूलम् , तत्र / “मूल प्रतिष्ठायाम् " मूलति मूलम् / मूयते वा, “शुक-शी-मूभ्यः कित्" [ हैमोणादिसू० 463 ] इति किद् लः / विशेषेण ईरयति-प्रेरयति वीरम् / पुष्कर इति नामाऽस्य पुष्करनामकम् / पुष्करस्येदं पौष्करम् , “तस्येदम्" [ सिद्ध 0 6.3.160 ] इत्यण् / पुष्करस्य जटा पुष्कर जटा। कश्मीरदेशे भवं काश्मीरम् , “भवे" [ सिद्ध०६.३.१२३ ] इत्यण् / पद्मवद् 20 वर्णोऽस्य पद्मवर्णम् , के पद्मवर्णकम् / आह च -- मूलं पुष्करमूलं च पौष्करं पुष्कराह्वयम् / / काश्मीर पुष्करजटा वीरं तत् पद्मवर्णकम् // [धन्व० वर्ग 1 श्लो० 66 ] इति / एतस्य लोके 'पुष्करमूल' इति प्रसिद्भिः // 366 // 25 बेस्तगन्धायां सुगन्धा खरपुष्पी शकम्भरा / कवरी बर्बरी तुङ्गी पूतिमयूर इत्यपि // 367 // बस्सस्येव गन्धोऽस्या बस्तगन्धा, तस्याम् / शोभनो गन्धोऽस्याः सुगन्धा, अभ्रादित्वादः; [सुष्टु] गन्धयति वा / खराणि पुष्पाण्यस्याः खरपुष्पी। शकं 1 मस्तुगन्धायां तु गन्धा नि० // 2 कर्बरी बर्बरी चुङ्गी नि० / /
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy