________________ 365] चतुर्थः शाककाण्डः। कटुकालाबुनी तुम्बी लम्बा पिण्डफला तथा / इक्ष्वाकुः क्षत्रियवरा तिक्तबीजा महाफला // [धन्व० वर्ग 1 श्लो० 170 ] इति / एतस्या लोके 'बबिणि' इति प्रसिद्धिः // 362 // चिटियाँ पुसी वालयेाराडपत्रिका) ऊर्वारुः कर्कटी मूत्रफला राजादनी लता // 363 // छर्दनी च विपाण्डुश्च चिरिः सौत्रः स्वादौ / चिरिणोति चिभिटी , “चिरेरिटो भ च” [ हैमोणादिसू० 149 ] इति इटः प्रत्ययो भकारश्चान्तादेशः, तस्याम् / “त्रपौषि लज्जायाम्" त्रपते इव त्रपुसी, "त्रपेरुसः" [ हैमोणादिसू० 578 ] इत्युसः / वलति 10 वालुङ्की, कञ्चुकांशुक-" [ हैमोणादिसू० 57 ] इत्युके निपात्यते / ऊर्वतिहिनस्त्यतिम् एर्वारुः,पुं-स्त्रीलिङ्गः, 'उर्वेरादेरूदेतौ च" [ हैमोणादिसू० 814] इति "उर्वै हिंसायाम्" इत्यस्मादारुः प्रत्ययः आदेश्च एकारादेशः / व्याडाकाराणि पत्राण्यस्याः व्याडपत्रिका। ऊर्वति ऊर्वारुः, “उर्वेरादेरूदेतौ च" [ हैमोणादिसू० 814 ] इति आरुः आदेरूकारादेशश्च / कर्कति कर्कटी, “दिव्यवि-" [ हैमोणादिसू० 142 ] 15 इत्यटः; ह्रस्वः कर्कः कर्कटी इति वा, ग्रामटीवत् / मूत्रयुतं फलमस्याः मूत्रफला / राज्ञामदनं राजादनी। लाति लायते वा लता, 'पृषि-रञ्जि-" [ हैमोणादिसू० 208 ] इति किदतः // 363 // छर्यते छर्दनी। विशिष्टः पाण्डुवर्णोऽस्याः विपाण्डुः / आह च___ कटुकं त्रपुसं प्रोक्तं विपाण्डुर्हस्तिपर्णनी।। छर्दापनी मूत्रफला लता कर्कटिकाऽपि च // ] इति / एतस्या लोके 'चीभडी' इति प्रसिद्धिः / .. तस्याः पक्वफलं स्फुटी। 'तस्याः' चिर्भिट्याः पक्वं फलं पक्वफलं "स्फुटत् विकसने" स्फुटति स्फुटी / 25 कूर्चके शृङ्गकः सजों दीर्घायुः कूर्चशीर्षकः // 364 // मङ्गल्यनामधेयश्च जीवकः प्रियजीवकः / ह्रस्वाङ्गको मधुरकः प्राणकश्चिरजीव्यपि // 365 // 20