SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 194 सटीके निघण्टुशेषे [प्रलो० ३६१पटोलः कुलकः प्रोक्तः पाण्डुरः कर्कशच्छदः / राजीफलः पाण्डुफलो राजमान्योऽमृताफलः // [ धन्व० वर्ग 1 श्लो० 49 ] इति / एतस्य लोके 'पटोल' इति प्रसिद्भिः // 360 // कर्कोटे तु किलासघ्नस्तिक्तपत्रः सुगन्धकः / करोति किलासहिंसां कर्कोटः, “कपोट-बकोट-" [ हैमोणादिसू० 161 ] इत्योटे निपात्यते, तत्र / किलासं हन्ति किलासघ्नः / तिक्तं पत्रमस्य तिक्तपत्रः। सुष्ठु गन्धयति सुगन्धकः, णकप्रत्ययः / एतस्य लोके 'कंकोडा' इति प्रसिद्धिः / . 10 कूष्माण्डके तु कारुः "कुषश् निष्कर्षे” कुष्यते कूष्माण्डः, “पिचण्डैरण्ड-" [ हैमोणादिसू० 176 ] इत्यण्डे निपात्यते, के कूष्माण्डकः; कोः उष्मणा अनितीति वा, कुत्सित उष्मा अण्डेषुबीजेष्वस्य वा, पित्तकारित्वात् , तत्र / कर्किः सौत्रः, कर्कति कर्कारः, पुंल्लिङ्गः, “कर्केरारुः" [ हैमोणादिसू० 813 ] इत्यारुः, उकारान्तः; “करोति तृप्तिं कर्कः, इयर्ति अरुः 15 "सद्यति-" [ हैमोणादिसू० 997 ] इत्युस् प्रत्ययः, बस्तिशोधनः सरत्वात् , कर्कश्वासावरुश्चेति वा, उसन्तोयम्" इत्यपरे / कालिङ्गयां बहुपुत्रिका // 361 // आलिङ्गयते वा, तस्याम् / बहवः पुत्रा अस्याः बहुपुत्री, के बहुपुत्रिका // 361 // तुम्ब्यां पिण्डफलेक्ष्वाकुस्तिक्तबीजा महाफला। अलाबूः क्षत्रियवरा कटुकालावुनी च सा // 362 // ताम्यति तुम्बी , "तुम्ब-स्तम्बादयः” [ हैमोणादिसू० 320 ] इति बान्तो. निपात्यते, तस्याम् / पिण्डाकाराणि फलान्यस्याः पिण्डफला। इष्यते इक्ष्वाकुः, "इषेः स्वाकुक्" [ हैमोणादिसू० 757 ] इत्यनेन “इषत् इच्छायाम्" इत्यस्मात् 25 कित् स्वाकुः प्रत्ययः / तिक्तानि बीजान्यस्याः तिक्तबीजा। महान्ति फलान्यस्याः महाफला / “लबुड् अवस्रंसने" न लम्बते अलाबूः, काक्वाऽत्र नञ् , “नो लम्बेर्न लुक् च” [ हैमोणादिसू० 838 ] इति णिदूः, स्त्री-क्लीबलिङ्गः / क्षत्रियैर्बियते क्षत्रियवरा / कटुका चासौ अलाबुनी च कटुकालाबुनी / आह च
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy