________________ . 356 ] चतुर्थः शाककाण्डः। शोषं हरति शोषहरी / जले जलस्य वा अपामार्ग इव जलापामार्गः / “उल दाहे" सौत्रः, ओलति ओलः, के ओलकः, त्रयोदशस्वरादिरयम् // 353 // अन्यस्तु स्थलगण्डीरः कर्बुरष्टक्कदेशजः। 'तुः' पुनरर्थे / 'अन्यः' अपरः स्थलस्य गण्डीरः स्थलगण्डीरः / कर्बुरो वर्णेन / टक्कदेशे जातः टक्कदेशजः। कांकमाच्यां तु कामाची काकसाह्रा' च वायसी // 354 // काकवद् मचते-वर्णेन सम्पृच्यते काकमाची, तस्याम् / पृषोदरादित्वान्मध्यककारलोपे कामाची / काकस इत्याह्वाऽस्याः काकसाहा / वायसवर्णत्वाद् वायसी / आह च काकमाची ध्वाश्रमाची काकसाह्वा च वायसी / कट्वी कटुफला चैव रसायनवरा स्मृता // - [ धन्व० वर्ग 4 श्लो० 21 ] इति / एतस्या लोके 'कमाई' इति प्रसिद्धिः // 354 // श्रीहस्तिन्यां तु भूरण्डी कुरण्डी कास्मरीरिपुः / हस्तिनी - हस्तिकर्णपत्रा, श्रीयुक्ता हस्तिनी श्रीहस्तिनी, तस्याम् / भुवि रोहति 15 भूरण्डी “पिचण्डैरण्ड-" [ हैमोणादिसू० 176 ] इत्यण्डे निपात्यते / को रोहति कुरण्डी, “पिचण्डैरण्ड-" [ हैमोणादिसू० 176 ] इत्यण्डे निपात्यते / / कास्मर्या रिपुः कास्मरीरिपुः। श्रीहस्तिनीनामानि / सुनिषण्णे सूचिपत्रः स्वस्तिकः शितिवारकः // 35 // "श्रीवराकः(? श्रीवारक)शितिवरो वितुन्नः कुक्कुटः शितिः॥ 30 सुष्टु सुतरां वा निषीदति स्म सुनिषण्णः, तत्र / सूच्याकाराणि पत्राण्यस्य सूचिपत्रः / स्वस्ति कायति स्वस्तिकः। शितिं वारयति शितिवारकः // 355 // श्रियं वृणीते श्रीवराकः ( ? श्रीवारकः)। शितिं वृणोति शितिवरः। वितुद्यते स्म वितुन्नः। “कुकि वृकि आदाने" कुक्यते कुक्कुटः, "नर्कुट-कुक्कुट-" [ हैमोणादिसू० 155 ] इत्युटे निपात्यते / श्यायते श्यति वा शितिः। आह च- 25 शितिवारः सूचिपत्रः शैल्याच( ? सूच्याह्वः) सुनिषण्णकः / श्रीवासकः शितिवरः स्वस्तिकः कटुकः( ? कुक्कुटः ) शिखी // [ धन्व० वर्ग 1 श्लो० 155 ] इति / 1 ०ह्वा वृषायणी नि० // 2 भूरुण्डी कुरुण्डी नि० // 3 शिरिवारकः नि० // 4 श्रीवारकः शिति नि॥