________________ 192 सटीके निघण्टुशेषे . [ श्लो० ३५६एतस्य लोके ‘षडकूतिर' इति प्रसिद्धिः / मूलके तु महाकन्दो रुचिष्यो हस्तिदन्तकः॥३५६॥ बस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः। "मूल प्रतिष्ठायां' मूलति मूलम् , मूयते वा “शुक-शी-मूभ्यः कित्” [ हैमो5 णादिसू० 463 ] इति किल्लः, तदेव मूलकम् , पुं-क्लीबलिङ्गः, तत्र / महांश्चासौ कन्दश्च महाकन्दः। रोचते रुचिष्यः, “रुचि-भुजिभ्यां किष्यः" [ हैमोणादिसू० 384 ] इति किदिष्यः / हस्तिदन्तप्रतिकृति हस्तिदन्तकम् . पुं-क्लीबलिङ्गः // 356 // ___ बस्तप्रतिकृति बस्तिका / नीलः कण्ठोऽस्य नीलकण्ठः। सेकेन निर्वृत्तः सेकिमः, "भावादिमः' [सिद्ध 0 6.4.21 ] इतीमः / हरि-नीलं पर्णमस्य हरि10 पर्णः, स्वार्थिके के हरिपर्णकः। आह च मूलकं हरिपर्णं च बस्तिका क्षारमेव च / नीलकन्दं महाकन्दं रुचिष्यं हस्तिदन्तकम् // धन्व० वर्ग 4 श्लो० 33 ] इति / एतस्य लोके 'मूला' इति प्रसिद्धिः / चाणक्यमूलके शालामर्कटो मरुसम्भवः // 357 / / विष्णुगुप्त-मतो 'मिश्रो वालेयो मर्कटोऽपि च / चाणक्यस्य मूलकं चाणक्यमूलकम् , तत्र / शालाया मर्कट इव शालामकटः। मरौ सम्भवति मरुसम्भवः // 357|| - विष्णुगुप्तमतः” इति विष्णुशब्दाद् गुप्त-मतशब्दौ योज्येते, तेन विष्णुगुप्तः 20 विष्णुमतः / “मिश्रण सम्पर्चने" मिश्यते मिश्रः / वलते वालेयः, “गय-हृद यादयः" [ हैमोणादिसू० 370 ] इति साधुः / मर्कः सौत्रो गत्यर्थः, मर्कति मर्कटः, “दिव्यवि-" [ हैमोणादिसू० 142 ] इत्यटः / आह च चाणक्यमूलकं चान्यं वालेयं मरुसम्भवम् / शालामर्कटमिश्रं च विष्णुगुप्तमनन्तकम् / / [धन्व० वर्ग 4 श्लो० 35 ] इति / बृहन्मूलकोऽयम् / हिलमोच्यां शवधरा जलब्राह्मी च मोचिका // 358 // 1 बुस्तिका नि• // 2 ‘सेकिनम्' इत्यभिधानचिन्तामणौ स्वोपज्ञटीकायां च // 3 °मिश्रः स्थालयो नि० // 15