________________ सटीके निघण्टुशेषे [प्रलो० ३५२क्षुद्राम्लिका तु चाङ्गेरी लोणिका चाऽम्ललोणिका / लोला लोडा चतुष्पर्णी सैव दन्तशठा मता // [ धन्व० वर्ग 5 श्लो० 36 ] इति / तथा च--- चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाऽम्ललोणिका / [अमर०का०२ वर्ग४ श्लो०१४०] इति / एतस्या लोके 'आंबउत्री' इति प्रसिद्धिः // 351 // तण्डुलीये मेघनादस्तण्डुली तण्डुलेरकः। गण्डीरको रक्तकाण्डो विषहार्यल्पमारिषः // 352 // 10 तण्डुलेभ्यो हितस्तण्डुलीयः, "हविरन्नभेदापूपादेयों वा” [सिद्ध 07.1.29] इतीयः; ताडयति दोषान् इति वा, “गय-हृदयादयः" [हैमोणादिसू०३७० ] इत्यये निपात्यते, तत्र / मेघस्येव नादोऽस्मात् मेघनादः / तण्डुलाः सन्त्यस्य तण्डुली / तण्डुलान् ईरयति द्रावकत्वात् तण्डुलेरः, स्वार्थिके के तण्डुलेरकः / गण्डी–प्रन्थिम् ईरयति गण्डीरः, स्वार्थिके के गण्डीरकः। रक्तः काण्डोऽस्य रक्तकाण्डः। विषं 15 हरति विषहारी / अल्पं मृणाति-हिनस्ति अल्पमारिषः, “अमि-मृभ्यां णित्" [ हैमोणादिसू० 549] इति इषः / आह च तण्डुलीयक उद्दिष्टश्चण्डाला तण्डुलेरकः / गण्डीरस्तण्डुली बीजो मेघनादो घनस्वनः / / धन्व० वर्ग 4 श्लो० 116 ] इति / 20 एतस्य लोके 'तण्डुलेजा' इति प्रसिद्रिः / // 352 // शमठे तु तोयवृत्तिर्गण्डीरस्तोयमब्जरी। समष्ठिला शोषहरी जलापामार्ग ओलकः // 353 // .. शाम्यति शमठः, "मृ-ज-श-कम्यमि-रमि-रपिभ्योऽठः" [ हैमोणादिसू०१६७] इति बहुवचनाद् अठः प्रत्ययः, तत्र / तोये- पानीये वृत्तिः-वर्तनमस्य तोयवृत्तिः / 25 गण्डीन्-ग्रन्थीन् ईरयति गण्डीरः। तोयस्य मञ्जरी तोयमब्जरी / सम्यगस्थीनि लाति समष्ठिला साण्डत्वात्, पृषोदरादित्वात् साधुः / समष्ठिलानाम शाकम् / यन्माला__ "गण्डीरो नाम समष्ठिला" [ ] इति / 1 मार्गतुल्यकः नि० //