________________ 351] 189 चतुर्थः शाककाण्डः / पालङ्कया वास्तुकाकारा क्षुरिका चीरितच्छदा / [ ] इति / एतस्या लोके 'पलांक' इति प्रसिद्धिः / जीवन्त्यां स्याज्जीवनीया जीवनी जीववर्धनी // 349 // मङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करी। जीवतादिति जीवन्ती, “रुहि-नन्दि-" [ हैमोणादिसू०२२०] इति टिदन्तः, "करणाऽऽधारे" [ सिद्ध 05.3.129 ] इत्यनट् / जीवस्य वर्धनी जीववर्धनी // 349 // मङ्गल्यमिति नामधेयमस्या मङ्गल्यनामधेया। शाकमध्ये श्रेष्ठा शाकश्रेठा / यशः करोति यशस्करी / आह च 10 जीवन्ती जीवनीया च जीवनी जीववर्धनी / मङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करी // [धन्व० वर्ग 1 श्लो० 140 ] इति / एतस्या लोके 'दोडी' इति प्रसिद्धिः / स्यादम्ललोणिकायां तु चाङ्गेरी चुक्रिका रसा // 350 // 15 अम्बष्ठाऽम्बोटिका दन्तशठा लोलाऽम्ललोलिका। नरेन्द्रमाला क्षुद्राम्ली चतुष्पर्णी च लोणिका // 351 // अम्लेन लुनाति अम्ललोणिका, पृषोदरादित्वात् साधुः, तस्याम् / चाङ्गं-दन्तपटुत्वमीरयति चाङ्गेरी। चुक्रन्ते–व्यथन्तेऽस्याः चुक्रिका, णके आप् / रस्यतेआस्वाद्यते रसा // 350 // 20 अम्बे तिष्ठति अम्बष्ठा, “गो-ऽम्बा-ऽम्ब-सव्या-उप-द्वि-त्रि" [ सिद्ध 02.3.30 ] इत्यादिना स्थशब्दसम्बन्धिनः सकारस्य षो भवति, "स्था-पा-स्ना-त्रः कः” [सिद्ध० 4.1.142] इति कः प्रत्ययः / अम्बमटति अम्बोटिका, पृषोदरादित्वात् साधुः / अम्लेन लोला अम्ललोला, के अम्ललोलिका / [. . . . .] नरेन्द्रमाला / क्षुद्रा 35 चासौ अम्ली च क्षुद्राम्ली / चत्वारि पर्णान्यस्याः चतुष्पर्णी / लुनाति लोणिका, पृषोदरादित्वात् / आह च 1 अम्बष्ठाऽम्लोलिका दन्तशठाटोलाम्लटोलकः / नरेन्द्रमाता नि० //