SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे . [श्लो० ३४७भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च / अङ्गारको भेकरजो भृङ्गारः केशरञ्जनः // [धन्व० वर्ग 4 श्लो० 11 ] इति / एतस्य लोके 'भांगरउ' इति प्रसिद्धिः / कासमदं त्वरिमर्दः कालं 'कनक-कर्कशौ // 347 // कासं मर्दयति कासमर्दः, तत्र / अरीन् मर्दयति अरिमर्दः / कालं वणन / कनति–दीप्यते कनकः / कर्क श्यति कर्कशः / आह च कासमर्दोऽरिमर्दश्च कासारिः कर्कशस्तथा / कालं कनक इत्युक्तः स च स्यात् कासमर्दकः // [ धन्व० वर्ग 4 श्लो० 118 ] इति / एतस्य लोके ‘कासंदउ' इति प्रसिद्धिः // 347 // वास्तुके तु शाकज्येष्ठः प्रवाल क्षारपत्रकः। शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः // 348 // वसन्त्यस्मिन् गुणा इति वास्तुकम्, “कञ्चुकांशुक-" [ हैमोणादिसू०५७ ] 15 इत्युके निपातनात् साधुः, तत्र / शाकेषु ज्येष्ठः शाकज्येष्ठः / प्रवलति प्रवालः, “वा ज्वलादि-" [ सिद्ध 05.1.62] इति णः। क्षारं पत्रमस्य क्षारपत्रः, के क्षारपत्रकः / शाकानां मध्ये वीर इव प्रधानत्वात् शाकवीरः। वीरश्चासौ शाकश्च वीरशाकः / ताम्राणि पुष्पाण्यस्य ताम्रपुष्पः / प्रसादयति प्रसादकः / आह च वास्तुकः क्षारपत्रः स्याच्छाकवीरः प्रसादकः / 20 . .. ] इति / " एतस्य लोके 'वथुआ' इति प्रसिद्धिः // 348 // पालङ्कयायां तु पालक्या क्षुरिका मधुसूदनी। पालयति पालन्या, “शिक्या-ऽऽस्या-ऽऽध्य-" [हैमोणादिसू०३६४.] इति ये निपात्यते, तस्याम्। पालके साधुः पालक्या. “तत्र साधौ" [सिद्ध 0 7.1.15] 2) इति यः, पाल्यते इति वा, “शिक्या-ऽऽस्या-ऽऽढ्य-" [हैमोणादिसू० 364 ] इति ये निपातनात् साधुः / क्षुरति क्षुरी, के क्षुरिकाः क्षुरिकेव वा क्षुरिका / मधु - माधुर्य सूदते मधुसूदनी / आह च-- 1 कतककर्कशः निः // 2 शाकश्रेष्ठः नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy