SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 347] चतुर्थः शाककाण्डः। 187 वृद्धदारक आवेगी जुङ्गको जीर्णवालकः / अन्तःकोटरपुष्पी स्यादजाण्डी छगलाण्ड्यपि // [धन्व० वर्ग 4 श्लो० 107 ] इति / एतस्य लोके 'वृद्धारा' इति प्रसिद्धिः / सुवर्चलायां मण्डूकी बदराऽऽदित्यवल्लभा // 34 // मण्डूकपर्ण्यभक्ताऽऽदित्यवल्ली सुखोद्भवा / सुष्ठ वर्चते सुवर्चला, “मुरलोरल-" [ हैमोणादिसू० 474 ] इत्यले निपात्यते; सुष्टु वर्चते सुवर्चः-अग्निदीपनम् , तल्लातीति वा, तस्याम् / मण्डति मण्ड्यते वा मण्डूकी, "मृ-मन्यञ्जि-" [हैमोणादिसू० 58 ] इत्यूकः, गौरादित्वाद् ङीः / “बद स्थैर्ये' बदति बदरा, “ऋच्छि-चटि-वटि-" [हैमोणादिसू० 397 ] इत्यरः / 10 आदित्यस्य वल्लभा आदित्यवल्लभा // 345 // . ___ मण्डूक इव पर्णान्यस्या मण्डूकपर्णी, "पाक-कर्ण-पर्ण-" [ सिद्ध 02.4.55] इति ङीः। अर्कस्य भक्ता अर्कभक्ता / आदित्यप्रिया वल्ली आदित्यवल्ली / सुखमुद्भवति अस्याः सुखोद्भवा / आह चसुवर्चलाऽऽदित्यकान्ता सूर्यभक्ता सुखोद्भवा / 15 मण्डूकपर्णी मण्डूकी बदराऽऽदित्यवल्ल्यपि // [ धन्व० वर्ग 4 श्लो० 98 ] इति / एतस्या लोके 'सूचलि' इति प्रसिद्धिः / भृङ्गराजे भृङ्गरजो भृङ्गारः केशरञ्जनः // 346 // 'अङ्गारको भेकरजो भृङ्गो मार्कव इत्यपि। भृङ्गवद् राजते भृङ्गराजः, तत्र / भृङ्गवद् रञ्जयति-कृष्णीकरोति भृङ्गरजः, अचि प्रत्यये पृषोदरादित्वान्नलोपः / भृङ्गान् इयर्ति भृङ्गारः। केशान् रञ्जयति केशरञ्जनः // 346 // अङ्गति अङ्गारकः "अग्यङ्गि-" [हैमोणादिसू० 405] इति आरे स्वार्थिके के च साधुः / भेकवद् रञ्जयति भेकरजः, अचि प्रत्यये पृषोदरादित्वात् साधुः / 25 भृङ्गराजैकदेशे भृङ्गः, यथा सत्या सत्यभामेत्यादिवत् ; बिभर्ति वा भृङ्गः, "भृ-वृभ्यां नोऽन्तश्च" [ हैमोणादिसू०९४ ) इति गः / मर्कति - सम्पृच्यते मार्कवः "कैरव-भैरव-" [ हैमोणादिसू०५१९] इत्यवे निपात्यते / आह च 1 सुखोद्भिदा नि० // 2 अमारको नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy