________________ 186 सटीके निघण्टुशेषे [श्लो० ३४३ब्राम्यां वयास्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी। . सरस्वती सत्यवती सुस्वरा ब्रह्मचारिणी // 343 // ब्राह्मीव ब्राह्मी, पावनत्वात् , तस्याम् / वयसि तिष्ठति वयःस्था, “स्थापा-स्ना-त्र:-" [सिद्ध० 5.1 142 ] इति कः, वयसः स्थैर्यकृत् / मत्स्याक्षी 5 मत्स्याक्षिपुष्पी / ब्रह्मण इयं ब्राह्मणी, "तस्येदम्" [सिद्ध 0 6.3.160 ] इत्यण् / सोमस्य वल्लरी सोमवल्लरी / सरः-प्रसरणमस्त्यस्याः सरस्वती। सत्यमस्त्यस्याः सत्यवती / शोभनः स्वरोऽस्याः सुस्वरा, "ओस्व शब्दोपतापयोः" सुष्ठ सुतरां वा स्वरति सुस्वरा इति वा / ब्रह्म चरतीत्येवंशीला ब्रह्मचारिणी / आह चब्राह्मी सरस्वती सोमा सत्याहा ब्रह्मचारिणी / ] इति / एतस्या लोके 'ब्राह्मी' इति प्रसिद्धिः // 343 // सूरणे कण्डुरः कन्दोर्णाघाती चित्रदण्डकः / सूयते-प्रेर्यते सूरणः, “चिक्कण-कुक्कण-" [हैमोणादिसू० 190 ] इत्यणे निपा15 त्यते, तत्र / कण्डूं राति कण्डुरः, पृषोदरादित्वात् साधुः / कन्द्यते-इष्टयते कन्दः, (पुं-लीबलिङ्गः] / अर्शी घातयति अझैघाती / चित्रो दण्डोऽस्य चित्रदण्डः, स्वार्थिके के चित्रदण्डकः / एतस्य लोके 'सूरणकन्द' इति प्रसिद्धिः / वृद्धदारके त्वावेगी जीर्णवोलक-जुङ्गको // 344 // अजाण्डी च ऋक्षगन्धा स्यादन्ताकोटपुष्प्यपि / 20 ... वृद्ध–वृद्धत्वं दारयति वृद्धदारकः ; वृद्धं दारकीकुरुते इति वा, पृषोदरादि· त्वात् , तत्र / आ-समन्ताद् वेगोऽस्त्यस्या आवेगी, वृद्धत्वात् , उद्वेजको वा / जीर्णा वाला अस्य जीर्णवालः, स्थार्थिके के जीर्णवालकः / “युगु जुगु वुगु वर्जने" चवर्गीयादिरयम् , जुङ्गति जुङ्गः, अच्, स्थाथिके के जुङ्गकः // 344 // अजस्येव अण्डानि-अस्थीन्यस्याः अजाण्डी। छगलाण्डीत्यपि / ऋक्षवद् 3 गन्धयति ऋक्षगन्धा / "वृक्षगन्धा" इति च पाठभेदः" इति क्षीरस्वामी / अन्तःकोटे पुष्पाण्यस्याः अन्तःकोटपुष्पी / आह च- 1 वालुक° नि० // 2 अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्प्यपि नि० //