SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 184 सटीके निघण्टुशेष [ग्लो० ३३९महांश्चासौ कन्दश्च महाकन्दः। आह च अथ महौषधम् / लशुनं गृञ्जनारिष्ट-महाकन्द-रसोनकाः // [ अमर० का० 2 वर्ग 4 श्लो० 148 ] इति / एतस्य लोके 'ल्हसणु' इति प्रसिद्धिः / अपरोऽप्येष गृचनो दीर्घपत्रकः। 'अपरः' अन्यः ‘एषः' रसोनः गृञ्ज्यते-कुत्सितः शब्द्यते गृञ्जनः, पुं-क्लीबलिङ्गः / दीर्घ पत्रमस्य दीर्घपत्रः, के दीर्घपत्रकः / पलाण्डौ यवनेष्टः स्यात् सुकन्दो 'वक्त्रदूषणः // 339 // 10 हरणः पिपर्ति धातून पलाण्डुः, "केवयु-भुरण्यु-" [हैमोणादिसू०७४६] इति उप्रत्यये निपात्यते; “पल गतौ” पलति वा पलाण्डुः, “पलि-मृभ्यामाण्डु-कण्डुको” [हैमोणादिसू०७६७] इत्याण्डुः प्रत्ययः, तत्र / यवनानाम् इष्टो यवनेष्टः / शोभनः कन्दोऽस्य सुकन्दः / वक्त्रं दूषयति वक्त्रदूषणः // 339 // हरति हरणः / आहुश्च___पलाण्डुर्यवनेष्टश्च सुकन्दो मुखदूषणः / हरणः [ धन्व० वर्ग 4 श्लो०७१ ] इति / एतस्य लोके 'डूंगली' इति प्रसिद्धिः / / ____ स तु हरितो लतार्को दुर्दुमोऽपि च / ___ 'तुः' पुनरर्थे / 'सः' पलाण्डुः 'हरितः' नीलः लतार्को लतार्काख्यः / दुष्टो द्रुमो दुईमः, अपवित्रत्वात् / आह च--. अन्यः पलाण्डुस्तु लतार्को दुर्दुमश्च सः / [धन्व० वर्ग 4 श्लो० 71] इति / सुश्रुतस्त्वाह लशुनो दीर्घपत्रश्च पिच्छागन्धो महौषधम् / फरण्यश्च पलाण्डुश्च लवतर्का परारिका / गृञ्जनं यवनेष्टश्च पलाण्डोर्दश जातयः // ] इति / 1 वक्त्रभूषणः नि० // 2 करणः नि०॥ 35
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy