SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 339] 10 चतुर्थः शाककाण्डः / 183 जयति मन्दाग्नित्वं जीरः “चि-जि-शुसि-" [हैमोणादिसू० 392] इति रो दीर्घत्वं च, स्वार्थिके के जीरकः, पुं-क्लीबलिङ्गः, तत्र / कणाः सन्त्यस्यां कणा, स्त्रीलिङ्गोऽयम् / अजं-स्वाभाविकं मन्दाग्नित्वमजति-क्षिपति अजाजी, लिहादित्वादचि अजेर्वी न भवति, स्त्रीलिङ्गः / जीर्यते अनेन जरणः, पुंल्लिङ्गः / कणोपलक्षितो जीरकः कणजीरकः / आह च__ शुक्लाऽजाजी कणाऽऽख्याता दीर्घकः कणजीरकः / / ] इति / एतस्य लोके 'श्वेतजीरा' इति प्रसिद्धिः / कृष्णेऽस्मिन् कारवी पृथ्वी सुगन्धा सुषवी पृथुः // 337 // कुंश्ची कालोपकालोपकुचिकोत्कुचिकाऽपि च / 'कृष्णे' श्यामे 'अस्मिन्' जीरके कारोरिय कारवी, "तस्येदम्" [ सिद्ध० 6.3.160 ] इत्यण् / पृथ्वी बृहत्कणा / शोभनो गन्धोऽस्याः सुगन्धा / सुष्ठु . सुवति सुषवी,अचि गौरादित्वाद् ङीः / पृथुः बृहत्कणत्वात् // 337 // "कुञ्च च कौटिल्या-ऽल्पीभावयोः” कुञ्चति कुञ्ची। काला वर्णेन / उपकालयति उपकाला / उपकुञ्चति-अल्पीकरोति उपकुञ्चिका / उत्कुश्चति उत्कु- 15 कुश्चिका / आह च कुञ्चिका चोपकुञ्ची च कालिका चोपकालिका / सुषवी कुञ्चिका कुञ्ची पृथ्वी कृष्णे च जीरके / [धन्व० वर्ग 2 श्लो०५९ ] इति / एतस्य लोके 'कालउ जीरउ'. इति प्रसिद्धिः / रसोने लशुनो म्लेच्छकन्दोऽरिष्टो महौषधम् // 338 // महाकन्दः 25 ऊनोऽम्लेन रसेनेति रसोनस्तेन कीर्तितः। ] इति / तत्र / लण्यते-अभिलष्यते लशुनः, "लषेः श च" [हैमोणादिसू० 289 ] इत्युनः प्रत्ययः तालव्यः शकारश्चान्तादेशः / [घु-क्लीबलिङ्गावेतौ / ] म्लेच्छानां प्रियः कन्दो म्लेच्छकन्दः / न रिष्यते अरिष्टः। महौषधं रोगजित्त्वात् // 338 // 1 तुषवी नि० // 2 उपकुञ्ची कुञ्चिका च कालोपकुञ्चिकाऽपि च नि० // ..
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy