________________ [ चतुर्थः शाककाण्डः] // अर्हम् // अथ चतुर्थं प्रस्तावप्राप्तं शाककाण्डं व्याक्रियते शतपुष्पायां तु घोषा शताहा माधवी मिसिः। अतिच्छत्रा छत्रपुष्प्यवाक्पुष्पा कारवी सहा // 336 // शतं-बहूनि पुष्पाण्यस्याः शतपुष्पा, "असत्काण्ड-प्रान्त-शतैकाऽञ्चः पुष्पात्" [सिद्ध 0 2.4.56] इति अञ्चो वजेनाद् ङीन भवति, तस्याम् / घोषति घोषा / शतमित्याह्वाऽस्याः शताहा / मधुन इयं माधवी, "तस्येदम्" [सिद्ध 0 6.3. 160 ] इत्यण् / “मिश मश रोषे च" तालव्यान्ताविमौ, मिश्यते मिसिः, "नाम्युपान्त्य-"[ हैमोणादिसू० 609] इति किदिः, पृषोदरादित्वाद् दन्त्यः सकारः, 10 स्त्रीलिङ्गः / छत्रमतिक्रान्ता अतिच्छत्रा / शतच्छत्राऽपि / छत्राकाराणि पुष्पा ण्यस्याः छत्रपुष्पी, "असत्काण्ड-प्रान्त-" [सिद्ध 0 2.4.56 ] इति डीः / अवाञ्चि-अधोमुखानि पुष्पाण्यस्याः अवाक्पुष्पा, "असत्काण्ड-प्रान्त-शतैकाऽञ्चः पुष्पात्" [सिद्ध० 2.4.56 ] इति सूत्रेण अञ्चो वर्जनाद् ङ्यभावः / आबन्त एवायम् / कारोरियं कारवी कर्मण्या, "तस्येदम्" [सिद्ध 0 6.3. 160] 15 इत्यण् / सहते सहा / आह च शतपुष्पा मिसि!षा शिफका माधवी शिफा / . अतिच्छत्रा त्ववाक्पुष्पा शताह्वा कारवी स्मृता // [ धन्व० वर्ग 2 श्लो० 1 ] इति / तथा च25. शतपुष्पा शतच्छत्रा[ऽतिच्छत्रा] मधुरा मिसिः। अवाक्पुष्पा कारवी च [अमर० का० 2 वर्ग 4 श्लो० 152 ] इति / एतस्या लोके 'सोआ' इति प्रसिद्धिः // 336 // . जीरके तु कणाऽजाजी जरणः कणजीरकः। 1 मिषिः नि० // 2 °पुष्पाऽवाक्पु नि० //