SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 10 15 180 सटीके निघण्टुशेष [प्रलो० ३३३आह च बिसं मृणालं बिसिनी मृणाला स्यान्मृणालिका / मृणालं पद्यनालं तु तन्तुलं नलिनीरुहम् // [धन्व० वर्ग 4 श्लो० 161 ] इति / एतस्य लोके 'बिसु' इति प्रसिद्धिः / किञ्जल्के केसरं किञ्चिद् जलति किजल्कम् ; किं-कुत्सितं जीयते वा, “निष्क-तुरुष्क-" [ हैमोणादिसू० 26 ] इति के निपात्यते, तत्र / के सरति, केसरम् / पुं-क्लीबलिङ्गावेतौ / आह च पद्मकेसरमापीतं किञ्जल्कं किञ्जमेव च / मकरन्दं तथा तुङ्गं गौरं काञ्चनमेव च // [धन्व० वर्ग 4 श्लो० 165 ] इति / एतस्य लोके 'केसर' इति प्रसिद्धिः / नव्यदले संवर्तिका भवेत् // 333 // नव्यदलं-पद्मादीनां नवोद्भिन्न दलं सैरयन्त्रकाख्यम् , तत्र / संवर्तयतिवेष्टयति संवर्तिका, णके आप् , 'भवेद्' इति स्यात् // 333 // कन्दे पाने करहाट-शिफे कनति-दीप्यते कन्दः, "शा-शपि-" हैमोणादिसू० 237] इति दः, कन्यते-अन्विष्यते वा, पुं-क्लीबलिङ्गः, तत्र / पद्मस्यायं पानः, "तस्येदम्" [सिद्ध 0 20 6.3.160] इत्यण् , तत्र 'पाझे' पद्मसम्बन्धिनि / कं रहयन्ति कराहाः-पमादयो जलोत्थाः, तान् अटति-प्राप्नोति करहाटः; कीर्यते वा, "कपाट-विराट-" [ हैमोणादिसू० 148 ] इत्याटे निपात्यते / शिनोति-दारयति मां शिफा, तालव्यादिः, “शफकफ-शिफा-शोफादयः' [ हैमोणादिसू० 316] इति फप्रत्यये निपात्यते / शालूकमौत्पले / 25 "शल गतौ” शलति शालूकम् , “शल्यणेर्णित्" [हैमोणादिसू० 59] इत्यूकः / उत्पलानामिदमौत्पलम्-उत्पलसम्बन्धि, तत्र / आह च पद्ममूलं तु शालूकं शकलं करहाटकम् / शालीनं पद्मकन्दं तु जलालूकं निगद्यते // [धन्व० वर्ग 4 श्लो० 163 ] इति / 30 . अनयोलोंके 'पद्ममूल' इति प्रसिद्धिः / 1 'शरयन्त्रिकाख्यम्' इति अभिधानचिन्तामणिस्वोपज्ञटीकायाम् //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy