________________ 333] तृतीयो लताकाण्डः। सुखं कैरवम् “कैरव-भैरव-" [हैमोणादिसू० 519 ] इत्यवे निपात्यते; के रौतिशब्दायते केरवः-हंसः, तस्येदं प्रियमिति वा / गर्दभस्याऽऽहयोऽस्य गर्दभा नीले तु स्यादिन्दीवरं 'तुः' अत्र पुनरर्थे / नीले उत्पले इन्दति श्रिया इन्दीवरम् , “तीवर-धीवर-" 5 [ हैमोणादिसू० 444 ] इति वरटि निपात्यते / हल्लकं रक्तसन्ध्यके। हलति-घूर्णते हल्लकम् . “कीचक-पेचक-" [ हैमोणादिसू० 33 ] इत्यकान्तो निपात्यते / रक्तान् सन्धीन् अकति-याति प्राप्नोति रक्तसन्ध्यकम् , रक्तं सन्ध्येव सौगन्धिके तु कहारं 20 इतीकण् / कल्यते कहारम् , “द्वार-शृङ्गार-" [ हैमोणादिसू० 411 ] इत्यारे निपात्यते; के ह्लादते वा, पृषोदरादित्वात् साधुः / शारदं शुक्लं चैतत् / बीजकोशे वराटकः // 332 // 15 कर्णिका बीजानां-पद्माक्षनाम्नां कोशो बीजकोशः, तत्र / वरमटति वराटकः / यत् शाश्वतःबीजकोशे सरोजस्य कपर्दे च वराटकः / [ श्लो० 180 ] इति // 332 // असत्यपि कर्णभवत्वे रूढत्वात् कर्णे भवा कर्णिका, “कर्ण-ललाटात-" [ सिद्ध० 6.3.141 ] इति कल् / पद्मनाले तु मृणालं तन्तुलं बिसम् / पद्मस्य नालं पद्मनालम् , तत्र / “मृणत् हिंसायाम्” मृण्यते अद्यते मृणालम् , त्रिलिङ्गः, “कुलि-पिलि-" [हैमोणादिसू० 476 ] इति किदालः; मृदमालीयते वा, 25 "क्वचित्" [ सिद्ध 0 5 1.171 ] इति डे पृषोदरादित्वात् साधुः / तन्तून् लाति तन्तुलम् , “क्वचित्" [सिद्ध 0 5.1.171] इति डः / “वींक प्रजनादिषु" वेति बिसम् , “पटि-वीभ्याम्-" [ हैमोणादिसू० 579 ] इति डिसः; विस्यते-प्रेर्यते वा / सम्।