________________ 178 सटीके निघण्टुशेषे [ग्लो० ३३०नलं सरोज नलिनमरविन्दं महोत्पलम् / ] इति / एतस्य लोके 'श्वेतकमल' इति प्रसिद्धिः // 329 // पुण्डरीकं सिताम्भोज "पुणत् शुभे" पुणति पुण्डरीकम् , पुण्डते वा, "सृणीका-ऽस्तीक-" [ हैमोणादिसू० 50] इतीके निपात्यते / सितं-श्वेतमम्भोजं सिताम्भोजम् / अथ रक्तसरोरुहे / रक्तोत्पलं कोकनदं रक्तं च तत् सरोरुहं च रक्तसरोरुहम् , तत्र / रक्तं-शोणमुत्पलं रक्तोत्प10 लम् / कोकैः-चक्रवाकैर्नदति कोकनदम् / “कोकाः- चक्राह्वा नदन्त्यस्मिन्" इति क्षीरस्वामी। आहुश्चरक्ताब्जे रक्तकुमुदे बुधैः कोकनदं स्मृतम् / [ शाश्वत० श्लो० 540 ] इति / ___ कैरविण्यां कुमुद्रती // 330 // 15 कैरवाणि सन्त्यस्यां कैरविणी, तत्र / कुमुदानि सन्त्यस्यां कुमुद्वती, “नड कुमुद-" [ सिद्ध० 6.2.74 ] इति डिद् मतुः प्रत्ययः; व्यञ्जनान्तात् कुमुच्छब्दाद्वा "तदस्यात्यस्मिन्निति मतुः" [ सिद्ध 07.2.1 ] इति मतुः / कुमुदिनीत्यपि // 330 // उत्पले स्यात् कुवलयं कुवेलं कुवलं कुवम् / उत्पिबति उत्पलम् , पुं-क्लीबलिङ्गः, “मुरलोरल-" [ हैमोणादिसू० 474 ] इत्यले 20 निपात्यते; उत्पलतीति वा, तत्र / कौ वलति-प्राणिति कुवलयम्, “कु-गु-वलि-" [हैमो को वेलति कुवेलम् / “कुङ् शब्दे" कवते भृङ्गारावैः कुवलम् , पुं-क्लीबलिङ्गः, "कोर्वा" [ हैमोणादिसू० 469 ] इति किदलः; को वलतीति वा / “वांक गति-गन्धनयोः" कुत्सितं वातीति कुवम् , “कचित्" [सिद्ध० 5.1.171] इति 25 डः / अस्य विशेषानाह श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् // 331 // 'तत्र' उत्पले श्वेते काम्यते कुमुदम् , पुं-क्लीबलिङ्गः, "कुमुद-" [ हैमोणादिसू० 244 ] इत्युदे निपात्यते; को मोक्ते इति वा / कुमुद इत्यपि / करोति