________________ 207 329 तृतीयो लताकाण्डः / एतस्या लोके 'पोयणि' इति प्रसिद्धिः // 327 // कमले नलिनं पद्ममरविन्दं कुशेशयम् / परं शत-सहस्राभ्यां पत्रं राजीव-पुष्करे // 328 // बिसप्रसूतं नालीकं तामरसं महोत्पलम् / तज्जलात् सरसः पङ्कात् परै रुड्-रुह-जन्म-जैः // 329 // काम्यते श्रिया कमलम्, “मृदि-कन्दि-" [ हैमोणादिसू० 465 ] इत्यलः; कम्- अम्भः अलति भूषयति वा; केन शिरसा मल्यते-धार्यते इति वा, तत्र / ''णल गन्धे" नलति नलिनम्, “श्या-कठि-खलि नलि-" [ हैमोणादिसू० 282 ] इत्यादिना इनः / पद्यते भृङ्गैः पद्मम् , “अर्तीरि-" [ हैमोणादिसू० 338 ] इति मः / एते पुं-क्लीबलिङ्गाः / अरान् विन्दति अरविन्दम् , “नि-गवादे म्नि" [सिद्ध 0 10 5.1.61 ] इति शः / कुशे-जले शेते कुशेशयम् , “शय-वासि-वासेष्वकालात्" [सिद्ध० 3.2.25 ] इति सप्तम्यलुप् / शत-सहस्रशब्दाभ्यां परं पत्रम् , शत-सहस्रे बहूपलक्षणम् , शतं सहस्रं च पत्राण्यस्य शत्रपत्रम् सहस्रपत्रम् / राज्यः-रेखाः सन्त्यस्य राजीवम् , मण्यादित्वाद् वः / “पुषंच् पुष्टौ" पुण्यति जले पुष्करम् , “सू-पुषिभ्यां कित्" [ हैमोणादिसू० 436 ] इति कित् करः // 328 // बिसात् प्रसूतं बिसप्रसूतम् / बिसप्रसूनमपि / 'णल गन्धे" नलति नालीकम् , पुं-क्लीबलिङ्गः, "सृणीका-ऽस्तीक-" [हैमोणादिसू० 50 ] इतीके निपात्यते / "तमूच काङ्खायाम्" तम्यते तामरसम् , “फनस-तामरसादयः" [हैमोणादिसू० 573 ] इत्यसे निपात्यते; तामः-सप्रकर्षों रसोऽस्येति वा, तामः प्रकर्षार्थः, तारतम्यवत् ; ताम्यद्भिः-भृङ्गैरस्यते वा। महच्च तदुत्पलं च महोत्पलम् / 'तत्' 30 इति कमलम् जलशब्दात् सरःशब्दात् पङ्कशब्दाच्च परै रुडादिभिरुच्यते इत्यर्थः / जलरुट् जलरुहं जलजन्म जलजम् , सरोरुट् सरोरुहं सरोजन्म सरोजम्, पङ्करुट पङ्करुहं पङ्कजम्म पङ्कजम् / यौगिकत्वाद् वारिरुड्-वारिज-सरसीरुहादयोऽवसेयाः / आह च कमलं श्वेतमम्भोजं सारसं सरसीरुहम् / सहस्रपत्रं श्रीगेहं शतपत्रं कुशेशयम् // . पङ्केरुहं तामरसं राजीवं पुष्करं कुहम् / अब्जमम्भोरुहं पद्म पुण्डरीकं च पङ्कजम् / / 15 25