________________ 171 317]. तृतीयो लताकाण्डः / मूर्वायां मोरटा देवी मधुश्रेणी मधूलिका। देवश्रेणी मधुरसा गोकर्णी तेजनी स्रवा // 315 // धनु:श्रेणी चापगुणा पीलुनी तिक्तवल्कला / पीलुपर्णी स्निग्धपर्णी पृथक्त्वग् मधुमत्यपि // 316 // मूर्वति-बध्नाति मर्वा / अत एव अस्या विकारो मौवीं, तस्याम् / मुरति- 5 संवेष्टयति मोरटा, "कपट-कीकटादयः” [ हैमोणादिसू० 144 ] इत्यटे निपात्यते / दीव्यति देवी, गौरादित्वाद् ङीः / मधूनां श्रेणी-पङ्क्तिर्मधुश्रेणी। मधूलिका माधुर्यात् / देवानां श्रेणी देवश्रेणी। मधुः-मधुरो रसोऽस्या मधुरसा / गोकर्णाभपत्रत्वाद् गोकर्णी, “पाक-कर्ण-पर्ण-" [ सिद्ध 0 2.4.55 ] इति ङीः / "तेजयत्यग्निं तेजनी" इति क्षीरस्वामी / स्रवति रसं सवा, अच् / "मवा" इत्येके॥३१५॥ 10 धनुषः श्रेणी अस्या धनुःश्रेणी। चापस्य गुणः-मौर्व्याख्योऽस्याः चापगुणा / "पील प्रतिष्टम्भे” पील्यतेऽनया पीलुनी, “पिशि-मिथि-क्षुधिभ्यः कित्" [हैमो 20 पीलोरिव पर्णान्यस्याः पीलुपी, स्निग्धानि पर्णान्यस्याः स्निग्धपर्णी, उभयत्र "पाक-कर्ण-पर्ण-" [ सिद्ध 0 2.4.55 ] इति ङीः / पृथक् त्वग् विद्यतेऽस्याः 15 पृथक्त्वम्। मधु विद्यतेऽस्याः मधुमती / आह च मूर्वा मधुरसा देवी पृथक्त्वग् पीलुपर्ण्यपि / देवश्रेणी स्वादुरसा स्निग्धपर्णी च मोरटा // [धन्व० वर्ग 1 श्लो० 13 ] इति / तथा चेन्दुः स्निग्धच्छदा मधुश्रेणी पृथक्त्वग् रसवाहिनी / देवश्रेणी मधुमती सुभङ्गी द्विजमेखला // आतोलनी योगवहा मोरटा च मधुस्रवा / सुखोषिता स्निग्धपी गोकर्णी सा मधूलिका / पीलुपी कर्मकरी तथा मधुमतीति च / ] इति / एतस्या लोके 'पीलउनी' इति प्रसिद्धिः // 316 // लाङ्गल्यां हलिनी नन्दा विशल्या गर्भपातनी। अनन्ताऽग्निमुखी सैरी दुष्पुष्पी कलिकारिका // 317 // 1 मिशिखा शक्रपुष्पिका कलि नि // 25