________________ 170 सटीके निघण्टुशेषे [३१३शारिवायां गोपकन्या गोपवल्ली प्रतानिका / गोप्यास्फोता लता श्वेता शारदी काष्ठशारिवा // 313 // नागजिह्वा शीर्यन्त्तनया दोषा शारिवा, “कैरव-भैरव-" [ हैमोणादिसू० 519 ] इत्यवे 5 निपात्यते, तस्याम् / गोपानां कन्येव गोपकन्या / गोपानां वल्ली गोपवल्ली / प्रतानो विद्यतेऽस्याः प्रतानिका / “गुपू रक्षणे" गोपायति गोपी। आस्फुटति आस्फोता, पृषोदरादित्वात् तकारः। लाति लायते वा लता, "पुत-पित्त-" [हैमोणादिसू०२०४ ] इति ते निपात्यते / श्वेतते श्वेता शुक्ला। शरदि भवा शारदी / काष्ठस्य शारिवा काष्ठशारिवा // 313 // 10 नागस्य जिह्वा नागजिह्वा / आह च शारिवा शारदी गोपी गोपवल्ली प्रतानिका / गोपकन्या लता सीता श्वेतोक्ता काष्ठशारिवा // [ धन्व० वर्ग 1 श्लो० 161 ] इति / तथा च15 शारिवा फणिजिह्वा च गोप्यास्फोताऽथ चन्दना / ] इति / उत्पलशारिवानाम / भद्रवल्ली कृष्णवल्ली चन्दनोत्पलशारिवा // 314 // 20 'सा' उत्पलशारिवा 'कृष्णा' श्यामवर्णत्वाद् भन्दते भद्रा, "भन्देर्वा' हैमोणादिसू० 391] इति रो नलोपश्च / चन्दनस्य शारिवा [चन्दनशारिवा] / भद्रा चासौ वल्ली च भद्रवल्ली। कृष्णा चासौ वल्ली च कृष्णवल्ली / “चंदु दीप्त्यालादनयोः" चन्दति चन्दना, “य्वसि-रसि-" [ हैमोणादिसू० 269 ] इत्यनः / उत्पलाभपत्रा उत्पलशारिवा / आह च 25 भद्रा चन्दनगोपी च चन्दना कृष्णवल्ल्यपि // [ धन्व० वर्ग१ श्लो० 162 ] इति / एतस्या लोके 'चन्दनशारिवा' इति प्रसिद्धिः // 314 //