SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 168 सटीके निघण्टुशेषे [ श्लो० ३०९महती चासौ श्वेता च महाश्वेता। गावोऽदन्त्यस्यां गवादनी, अनटि "स्वरे वाऽनक्षे” [सिद्ध 0 1.2.29 ] इत्यवादेशः / ___एतस्या लोके 'काली गिरणई' इति प्रसिद्धिः / आह च अश्वखुरः श्वेतपुष्पी श्वेता च गिरिकर्णिका / कटभी श्वेतनामा च श्वेतस्यन्दाऽपराजिता // नीलपुष्पी महाश्वेता गिरिकर्णी गवादनी / वेशी चात्युग्रगन्धा च नीलस्यन्दा प्रकीर्तिता // [धन्व० वर्ग 4 श्लोक 84-85] इति / एतानि सर्वाणि “स्याद् गिरिकामास्फोता" [ श्लो० 307 ] इत्याद्यारभ्य 10 गिरिकर्णीनामानि ज्ञेयानि / स्यादिन्द्रवारुण्यां चैन्द्री विषादनी गवादनी // 309 // इन्द्रेर्वारुः क्षुद्रफला गोडुम्बा च गवाक्ष्यपि / इन्द्रवद् अझैवृणोति इन्द्रवारुणी, "ऋ-कृ-वृ-" [ हैमोणादिसू० 196 ] ___ इत्यादिना उणः, पृषोदरादित्वाद् दीर्घः, तस्याम् / इन्द्रस्येयम् ऐन्द्री / विषोऽद्यते15 ऽनया विषादनी / गावोऽदन्त्यस्यां गवादनी, "करणा-ऽऽधारे [सिद्ध 0 5.3.129] इत्यनट् , "स्वरे वाऽनक्षे" [सिद्ध० 1.2.29] इत्यवादेशः // 309 // - इन्द्रस्य एर्वारुरिव इन्दैर्वारुः / क्षुद्राणि फलान्यस्याः क्षुद्रफला / गावोऽदन्ति गोडुम्बा, "तुम्ब-स्तम्बादयः" [ हैमोणादिसू० 320 ] इति वान्तो निपात्यते / ___ गोरक्षीव गवाक्षः, "अक्ष्णोऽप्राण्यङ्गे' [सिद्ध 0 7.3.85] इत्यत् समासान्तः / “गोरि 20 वाक्ष्यस्याः" इत्यन्ये, “सक्थ्यक्ष्णः स्वाङ्गे" [ सिद्ध 0 7.3.126 ] इति टः प्रत्ययः, [ “अणत्रेये-'' सिद्ध 0 2.4.20 इति ङ्यां गवाक्षी ] / आह च ऐन्द्रीन्द्रवारुणीन्द्राह्वा इन्द्रैर्वारुर्विषादनी / गवादनी क्षुद्रफला विशालाक्षी गवाक्ष्यपि // [धन्व० वर्ग 1 श्लो० 248 ] इति / एतस्या लोके 'इन्द्रवारुणी' इति प्रसिद्धिः / द्वितीयेन्द्रवारुण्यां तु चित्रफला महाफला // 310 // आत्मरक्षा विशाला च पुसी तुम्बसीत्यपि / 'तुः' पुनरर्थे / द्वितीयेन्द्रवारुण्यां चित्राणि फलान्यस्याः चित्रफला / महान्ति फलान्यस्याः महाफला // 310 // 1 deg रुणी त्वैन्द्री नि० // 2 गोद्गुबा च नि० // 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy