SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 309] __ तृतीयो लताकाण्डः। 167 तत्फले वशिरो हस्तिपिप्पली श्रेयसीत्यपि / तस्याः-चविकायाः फलं तत्फलम्, तत्र / “वशक् कान्तौ” उश्यते वशिरः, पुंल्लिङ्गः, 'क्लीबोऽयम्', इत्यपरे, “स्थविर-पिठिर-" [ हैमोणादिसू०४१७] इतीरे निपात्यते / हस्तिनः पिप्पली हस्तिपिप्पली / अतिशयेन प्रशस्या श्रेयसी, [ सिद्ध 0 7. 4. 34 ] “गुणाङ्गाद्वष्ठे यसू" [सिद्ध 07.3.9] इति ईयसौ "प्रशस्यस्य श्रः" 5 [सिद्ध 0 7. 4.34 ] इति श्रादेश; आह चतस्याः फलं विनिर्दिष्टं श्रेयसी हस्तिपिप्पली / [धन्व० वर्ग 2 श्लो० 78 ] इति / एतस्या लोके 'गजपीपली' इति प्रसिद्भिः। चन्द्रनन्दनस्तु सामान्येनाऽऽहचव्या कोलाऽथ चविका श्रेयसी गजपिप्पली / . 10 च्यवनं कोलवल्ली तु चव्यं कुञ्जरपिप्पली // [ ] इति / स्याद् गिरिकांमास्फोता विष्णुकान्ताऽपराजिता // 307 // गिरिः-अश्मेव कर्णोऽस्याः गिरिकी, “पाक-कर्ण-पर्ण-" [ सिद्ध 02.4.55.] इति ङीः, तस्याम् / 'आ-समन्तात् स्फुटति आस्फोता, पृषोदरादित्वात् तकारः / 15 विष्णुना क्रम्यते विष्णुकान्ता / अत एव रक्षाहेतुत्वाद् अपराजिता अप्रतिहता / एतस्या लोके 'गिरणई' इति प्रसिद्धिः // 307 // सा तु श्वेता श्वेतनामा कटभी श्वेतनामिका / श्वेतस्यन्दाऽश्वखुरश्च 'तुः' अत्र पुनरर्थे / 'सा' गिरिकर्णिका 'श्वेता' निर्मला / श्वेत इति नाम 2) अस्याः श्वेतनामा / “कटे वर्षा-ऽऽवरणयोः” कटति कटभी, 'कु-श-ग-शलि-" [ हैमोणादिसू० 329 ] इत्यादिनाऽभः / श्वेतनामैव श्वेतनामिका / श्वेतः स्यन्दोऽस्याः श्वेतस्यन्दा / अश्वखुर इव अश्वखुरः / एतस्या लोके 'श्वेतगिरणई' इति प्रसिद्भिः / कृष्णा स्वव्यक्तगन्धिका // 308 // नीलस्यन्दा नीलपुष्पी महाश्वेता गवादनी / 'तुः' पुनरर्थे / कृष्णा गिरिकर्णी अव्यक्तो गन्धोऽस्याः अव्यक्तगन्धिका // 308 // नीलः स्यन्दोऽस्याः नीलस्यन्दा / नीलवर्णानि पुष्पाण्यस्याः नीलपुष्पी / 1 गिरिपामरस्फोता नि० // 2 श्वेतपुष्पिका नि० // 3 °ताऽङ्गवन्दना नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy