________________ सटीके निघण्टुशेषे [प्रलो० ३०५आह च पिप्पली मागधी कृष्णा चपला तीक्ष्णतण्डुला / उपकुल्या कणा श्यामा कोला शौण्डी तथोषणा // [धन्व० वर्ग 2 श्लो० 73 ] इति / 5 इन्दुश्चपिप्पली तण्डुलफला वैदेही कृष्णतण्डुला / ] इति / एतस्या लोके 'पीपलि' इति प्रसिद्धिः / तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः॥३०॥ 10 सुमूलकं कोलमूलं कटुग्रन्धिकमोषणम् / 'तन्मूलं' पिप्पलीमूलं ग्रन्थिप्रतिकृति ग्रन्थिकम्, “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः-" [सिद्ध 07.1.108] इति कः / सर्वे ग्रन्थयोऽत्र सर्वग्रन्थिकम् / चटकाशिरोरूपत्वात् चटकाशिरः॥३०५॥ शोभनो मूलोऽस्य सुमूलम्, स्वार्थिके के सुमूलकम् / कोलायाः मूलं को15 लमूलम्, पृषोदरादित्वाद् हस्वः / कटु च तद् ग्रन्थिकं च कटुग्रन्थिकम् / "उष दाहे" सौत्रः, ओषति ओषणम् , नन्द्यादित्वादनः / आह च मूलं च पिप्पलीमूलं ग्रन्थिकं चटकाशिरः / कोलमूलं कटुग्रन्थि सर्वग्रन्थिकमूलकम् // [धन्व० वर्ग 2 श्लो० 75 ] इति / 20 एतस्य लोके 'पीपलीमूल' इति प्रसिद्धिः / / चविकार्यों पुनश्चव्यं चवनं कोलवल्ल्यपि // 306 // च्यव्यते चविका, तस्याम्, “शिक्या-ऽऽस्याड्य-' हैमोणादिसू०३६४] इति ये निपातनात् चव्यम् , च्यवते वा चव्यम् , स्त्री-क्लीबलिङ्गोऽयम् / अनटि चवनम् / कोलस्य–संस्त्यानस्य वल्ली कोलवल्ली / आह च25 . चविका कोलवल्ली च चव्यं चवनमेव च / [धन्व० वर्ग 2 श्लो० 76 ] इति / एतस्या लोके 'चविक' इति प्रसिद्धिः // 306 // 1 अभिधानचिन्तामणौ तत्स्वोपज्ञटीकायां च 'चटिकाशिरः' इति दृश्यते // 2 समूलकं नि. // 3 कमूषणम् निः // 4 ०यां तथा चव्यं चवनं काल नि० //