________________ 305] तृतीयो लताकाण्डः / रक्ता भण्डीरिका च [ ] इति / एतस्या लोके 'मजीठि' इति प्रसिद्धिः / मरिचे मलिनं कृष्णं वेल्लज धार्मपत्तनम् // 303 // यवनेष्टं शिरोवृत्तमूषणं कोलकं च तत् / म्रियते जिह्वा अनेन मरिचम्, “मृ-पिभ्यामिचः' [हैमोणादिसू० 117] इतीचः, 5 तत्र / मलिनं वर्णेन / कृष्णं वर्णेन; कर्षति तैक्ष्ण्याद्वा "घृ-वी-ह्वा-" [हैमोणादिसू० 183] इति किद् णः / वेल्ले–वेल्लातटे जायते वेल्लजम् / “विल्लाख्यः शाखी" इत्येके / धर्मपत्तने भवं धार्मपत्तनम्, “भवे" [सिद्ध 0 6.3.123] इत्यण् // 303 // यवनानामिष्टं–प्रियं यवनेष्टम् / यवनप्रियमपि / शिरसि वृत्तं वृत्ताकारं शिरोवृत्तम् / ऊषति-रुजति ऊषणम् / कोलति-संस्त्यायति कोलकम् / आह च- 10 मरिचं मलिनं श्यामं वेल्लनं कृष्णमूषणम् / यवनेष्ट शिरोवृत्तं कोलकं धार्मपत्तनम् // [धन्व० वर्ग 2 श्लो० 88 ] इति / एतस्य लोके 'मिरी' इति प्रसिद्धिः / पिप्पल्यां चपला कृष्णा वैदेही मागधी कणा // 304 // 15 शौण्डी श्यामोषणा कोलोपकुल्या कृष्णतण्डुला / पलति आतुरं पिप्पली, “पृ-पलिभ्यां टित् पिप् च पूर्वस्य” [ हैमोणादिसू० 11] इति अः प्रत्ययः, तस्याम् / “चप सान्त्वने" चपति चपला, "मृदि-कन्दि-" [हैमोणादिसू० 465] इत्यादिना अलः / कर्षति [कर्फ ] कृष्णा तैक्ष्ण्यात्, "घृवी-हा-" [ हैमोणादिसू० 183] इति किद् णः; श्यामत्वाद्वा / विदेहदेशे भवा वैदेही, 20 "भवे" [ सिद्ध 06.3.123] इत्यण् / मगधदेशे भवा मागधी, "भवे' [सिद्ध०६. 3.123] इत्यण् / कणाः सन्त्यस्याः कणा, अभ्रादित्वादः // 304 // शौण्डीव शौण्डी, शक्तत्वात् / श्यामा वर्णेन; "श्यैङ् गतौ" श्यायते वा, "विलिभिलि-"हैमोणादिसू० 340 ] इति किन्मः / उषति-रुजति उषणा पञ्चमस्वरादिः / ओषणाऽपि, त्रयोदशस्वरादिरयम् / “कुल संस्त्याने" कोलति कोला / उपको- 25 लति-संस्त्यायति उपकुल्या, “कुलेडू च वा” [ हैमोणादिसू०३६२ ] इत्यनेन “कुल बन्धु-संस्त्यानयोः” इत्यस्मात् किद् यः प्रत्ययः। कृष्णाः तण्डुला अस्याः कृष्णतण्डुला / 1 °वृन्तमूषणं नि० //