________________ सटीक निघण्टुशेषे [ग्लो० ३०२ऋषभी तु शूकशिम्ब्याम् [ ] इति / वह्नः पर्यायोऽस्या वह्निपर्याया। कपीनां रोमेव रोमास्याः कपिरोमा / ऋष्यप्रोक्ता स्वयंगुप्ता कपिकच्छूश्च कण्डुरा / आत्मगुप्ता दुरालम्भा लागली दुरभिग्रहा // अव्यण्डा वृषभी गुप्ता कण्डूरा शूकशिम्बिका / कपिरोमफला चैव समाना सुविषायणी // ज्ञेया जाङ्गलिका सैव साऽजहा प्रावृषायणी // [ ] इति / एतस्या लोके 'कउंछि' इति प्रसिद्धिः // 301 // मञ्जिष्ठायां रक्तयष्टिः समङ्गा विकसाऽरुणा। भण्डीरी मन्जुका भण्डी मेनिर्योजनवल्लिका // 302 // कालमेषी कालगोष्ठी मण्डूकपर्णिकाऽपि च / मञ्जौ-मनोज्ञे वर्णे तिष्ठति मञ्जिष्ठा, “गो-ऽम्बा-ऽम्ब-" [ सिद्ध० 2.3.30] 15 इति षत्वम् , पृषोदरादित्वादुकारस्य इत्वम् / “मजिरिति इकारान्तोऽयम्" इत्यपरे / रक्ता यष्टिरस्याः रक्तयष्टिः। समन्ताद् अङ्गति-गच्छति समगा / विकसति दूरं विकसा। अरुणा रक्तत्वात् ; इयर्ति अर्यते वा, "ऋ-कृ-वृ-धृ-दारिभ्य उणः” इत्युणः / "भडुङ् परिभाषणे" भण्ड्यते भण्डीरी, "जम्बीरा-ऽभीर-" [हैमोणादिसू० 196 ] इतीरे निपात्यते / मञ्जुवर्णत्वाद् मञ्जुका / भण्ड्यते भण्डी / “मजि ध्वनौ” सौत्रः, 20 मञ्जति मजिः , “पदि-पठि-पचि-" [ हैमोणादिसू० 607 ] इति आदिशब्दादिः / योजनस्य वल्लिका योजनबल्लिका, दूरप्रसरेत्यर्थः // 302 // - काले मिष्यते-झट्यते कालमेषी, घञ् प्रत्ययः / कालस्य गोष्ठी कालगोष्ठी / __मण्डूक इव पर्णान्यस्या मण्डूकपर्णी, स्वार्थिके के मण्डूकपर्णिका। आह च मञ्जिष्ठा कालमेषी च समङ्गा विकसाऽरुणा / 25 मञ्जुला रक्तयष्टिश्च भण्डी योजनवल्ल्यपि // [धन्व० वर्ग 1 श्लो० 17] इति / आहेन्दुः विकसा कालमेषी च कालगोष्ठी च जिङ्गिका / 1 जिङ्गो योजनवल्ल्यपि नि० //