SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 301 ] तृतीयो लताकाण्डः। इति कः / रसति रास्ना, “रसेर्वा" [ हैमोणादिसू० 260 ] इति नः / तिक्तकस्य रोहिणी तिक्तकरोहिणी / तेजयति तिक्ता, “पुत-पित्त-" [ हैमोणादिसू० 204 ] इति ते निपात्यते / न रिष्यते- न हिंस्यते अरिष्टा, "शी-री-" [ हैमोणादिसू० 201] इति बहुवचनात् कित् तः / कटुशब्दसाधनाऽत्रैव प्रागुक्ता / मत्स्या मत्स्यपित्तत्वात् / चक्राकारमङ्गमस्याः चक्राङ्गी / शकुलैरद्यते शकुलादनी / आह च कटुका मत्स्यशकुला मत्स्यपित्ता च रोहिणी / कृष्णभेदा चन्द्ररुहा नाम्ना(? रास्ना) कटुकरोहिणी // अशोका रोहिणी तिक्ता चक्राङ्गी शकुलादनी / कटुरोहिण्यरिष्टा च प्रोक्ता तिक्तकरोहिणी // [ धन्व० वर्ग 1 श्लो० 37-38 ] इति / एतस्या लोके 'कडू' इति प्रसिद्धिः // 299 / / कपिकच्छूरात्मगुप्ता कण्डुरा दुरभिग्रहा / अजहा मर्कटी व्यण्डा कच्छुरा कपिकच्छुरा // 30 // ऋष्यप्रोक्ता शूकशिम्बिाङ्गली प्रावृषायणी / 'ऋषभी वह्निपर्याया कपिरोमा दुरालभा // 301 // 15 कपीन् कषति कपिकच्छः, स्त्रीलिङ्गः, "कषेण्र्ड-छौ च षः” [हैमोणादिसू० 831] इति, "कष हिंसायाम्" इत्यस्माद् ऊः प्रत्ययः षकारस्य च छादेशः, तस्याम् / आत्मना गुप्ता स्पर्शाविषयत्वाद् आत्मगुप्ता / कण्डूं राति कण्डुरा, "क्वचित्" [सिद्ध 05.1.171] इति डे पृषोदरादित्वाद् हस्वे च साधुः / दुःखेन अभिगृह्यते दुरभिग्रहा / न जहाति शूकान् अजहा / मर्कटीव मर्कटी, कपिरोमफलत्वात् / 2) विगतोऽण्डोऽस्या व्यण्डा / “न विगताण्डा अव्यण्डा" इति क्षीरस्वामी / कच्छूरस्त्यस्याः कच्छुरा, "कच्छ्वा डुरः” [ सिद्ध 0 7.2.39] इति डुरः / कपीनां कच्छुरा कपिकच्छुरा // 300 // ऋष्यैः-मृगैः प्रोक्ता-दर्शिता ऋष्यमोक्ता / "ऋषिभिरप्रोक्ता वा, हेयत्वात्" इत्येके / शूकप्रधाना–सकण्टका शिम्बिरस्याः शूकशिम्बिः। लाङ्गलीव लागली, 25 हलाकारत्वात् / प्रावृषि भवा प्रादृषायणी / “ऋषत् गतौ" ऋषति ऋषभी, "ऋषि वृषि-'' [ हैमोणादिसू० 331] इति किदभः / यदाह 1 कच्छा मह्यगुप्ता नि० // 2 आर्यभी नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy