________________ 162 सटीके निघण्टुशेषे [*लो० २९८"तीवर-धीवर-" [ हैमोणादिसू० 444 ] इति वरटि निपात्यते / “प्यैङ् वृद्धौ” प्यायते वा पीवरी, "ध्या-प्योर्धी पी च" [हैमोणादिसू० 908 ] इति कनिप् प्रत्ययः पी इत्यादेशश्च / इन्दीवरी, उत्पलपुष्पत्वात् / वृणोति वरी // 295 // शतं-बहूनि मूलान्यस्याः शतमूली / शतं-बहूनि पदान्यस्याः शतपदी / 5 शतं-बहु वीर्यमस्याः शतवीर्या / मधु स्रवति मधुसवा / नारायणस्येयं नारायणी विष्णुजाता, "तस्येदम्" [ सिद्ध 0 6.3.160 ] इत्यग् / द्वीपिनः शत्रुरिव द्वीपिशत्रुः / द्वीपो विद्यतेऽस्या द्वीपिका / न भीरूणि पत्राण्यस्याः अभीरुपत्री, स्वार्थिक के अभीरुपत्रिका // 296 // महापुरुषेण दत्ता महापुरुषदत्ता। ऊधं कण्टकान्यस्या ऊर्ध्वकण्टका / 11) वराः कण्टका अस्या वरकण्टका / सहस्रं-बहु वीर्यमस्या सहस्रवीर्या / तुङ्गो विद्यतेऽस्याः तुङ्गिनी / न भीरुः अभीरुः स्थिरपत्रा। संबियते संवरणी / आह च शतावरी शतपदी पीवरीन्दीवरी वरी। ऋक्षप्रोक्ता द्वीपिशत्रुर्दीपिका वरकण्टका // सहस्र वीयोऽभीरुश्च तुङ्गिनी बहुपत्रिका / महापुरुषदत्ता च शतावयूकण्टका // [ धन्व० वर्ग 1 श्लो० 291, 293 ] इति / एतस्या लोके 'शतावरी' इति प्रसिद्धिः // 297 // कटुकायां मत्स्यपित्ता रोहिणी कटुरोहिणी / अशोकरोहिणी कृष्णभेदा तिलकरोहिणी // 298 // 20 केटम्बरा काण्डरुहा रास्ना तिक्तकरोहिणी। तिक्ताऽरिष्टा कटुमत्स्या चक्राङ्गी शकुलादनी // 299 // कटति कटुः, "भृ-मृ-तृ-स्सरि-" [ हैमोणादिसू० 716 ] इत्युः, स्वार्थिके के कटुका, तस्याम् / मत्स्यपित्तास्वादा मत्स्यानां पित्तं-जीवितं वा मत्स्यपित्ता / रोह यत्यङ्गं रोहिणी। कटुश्चासौ रोहिणी च कटुरोहिणी / नास्ति शोकोऽस्या 25 अशोका, सा चासौ रोहिणी च अशोकरोहिणी / शोकरोहिणीत्यपि / कृष्णो भेदः छेदोऽस्याः कृष्णभेदा / तिलकं रोहयति तिलकरोहिणी // 298 // कटति--आवृणोति गलं कटम्बरा, “जठर-कर-" [हैमोणादिसू० 403 ] इत्यरे निपात्यते / काण्डे रोहति काण्डरुहा, "नाम्युपान्त्य-" [सिद्ध० 5.1.54 ] 1 कटम्भरा नि० // . 15