________________ [तृतीयो लताकाण्डः] // अर्हम् // अथ तृतीयं लताकाण्डं व्याख्यायते - गुञ्जायां कृष्णला काकचिश्चिका काकनिन्दिका / काकादनी काकनखी रक्तिका काकनन्तिका // 292 // काकपीलुश्चक्रशल्या दुर्मेषा ताम्रिकोच्चटा / चूडामणिनुमोद्घो च शीतपाकी शिखण्डिनी // 293 // "क्षीज कूज गुज गुजु अव्यक्ते शब्दे" गुञ्जति शिम्ब्यां गुब्जा, तस्याम् / कृष्णं प्रान्ते लाति कृष्णला / काकपर्णा चिञ्ची-प्रान्तोऽस्याः काकचिञ्ची, स्वा10 थिके के काकचिञ्चिका / काक इव निन्द्यते श्यामवर्णेन काकनिन्दिका / काकैरद्यते काकादनी / काकस्येव नखोऽस्याः काकनखी / रक्तो वर्णोऽस्त्यस्या रक्तिका, "अतोऽनेकस्वरात्" [सिद्ध 0 7.2.6 ] इतीकः / काकान् अन्तयति काकनन्तिका, पृषोदरादित्वात् // 292 // काकानां पीलुरिव काकपीलुः / चक्राकारं शल्यमस्याः चक्रशल्या। दुष्टो 15 मेषोऽस्या दुर्मेषा / ताम्रो वर्णोऽस्त्यस्याः ताम्रिका, “अतोऽनेकस्वरात्" [सिद्ध 0 7.2.6] इतीकः / "चट् च भेदे" उच्चटति उच्चटा / चूडायां मणिः चूडामणिः / द्रुमेषु उद्घा द्रुमोद्घा / शीतेन पाकोऽस्याः शीतपाकी, “पाक-कर्ण-पर्ण-" [सिद्ध 0 2. 4-55] इति ङीः। शिखण्डोऽस्त्यस्याः शिखण्डिनी / आह च काकादनी काकपीलुः काकशिम्बिश्च रक्तिका / चक्रशल्या ध्वानखी द्रुमोद्घा काकनन्तिका // चूडामणिः शीतपाकी शिखण्डा कृष्णला मता / उच्चटा ताम्रिका गुञ्जा चटकी काकसाह्वया] // [ धन्व० वर्ग 4 श्लो० 27,29 ] इति / एतस्या लोके 'चिणउठी' इति प्रसिद्भिः // 293 // 1 ०?मौघा च शतपाकी नि० //