________________ 155 285 ] द्वितीयो गुल्मकाण्डः / . प्रपुण्डरीके पौण्डय सानुजं पौण्डरीयकम् // 283 // --प्रपौण्डरीकं चक्षुष्यं सत्पुष्पं सानुमानकम् / प्रकर्षेण पुणति पुण्ड्यते वा प्रपुण्डरीकम् , “सृणीका-ऽस्तीक-" [ हैमोणादिसू० 50 ] इतीके निपात्यते, * तत्र / पुण्डरीकशब्दस्यैकदेशानुकाराद् लोपे पुण्डरीकस्येदं पौण्डर्यम् , दाहहृत्त्वात् / सानौ जातं सानुजम् , “क्वचित्' [ सिद्ध 0 5.1.171] 5 इति डः / पुण्डरीकस्येदं पौण्डरीयम् , के पौण्डरीयकम् // 283 // ____ प्रकर्षेण पुण्डरीकस्येदं प्रपौण्डरीकम् , दाहहृत्वात् , “तस्येदम्" [सिद्ध 0 6.3.160 ] इत्यण् / चक्षुषे हितं चक्षुष्यम् , “प्राण्यङ्ग-" [सिद्ध 0 7.1,37] इति यः / सन्ति पुष्पाण्यस्य सत्पुष्पम् / सानौ मान्यते सानुमानम् , के सानुमानकम् / आह च प्रपौण्डरीकं चक्षुष्यं पौण्डयं पुण्डरीयकम् / पौण्डरीकं शतपुष्पं सुपुष्पं सानुमानकम् // [धन्व० वर्ग 3 श्लो० 92 ] इति / एतस्य लोके 'पद्म' इति प्रसिद्धिः / “स्थलपमम्” इति गौडः। जतूकायां तु जतुका जतुकृच्चक्रवर्तनी // 284 // जन्तुका जतुकारी च संस्पर्शा जननी जनी। जतु करोति जतूका, “क्वचित्" [ सिद्ध 0 5.1.171 ] इति डः, पृषोदरादित्वाद् दीर्घः, तस्याम् / जायतेऽस्याः जतु, “मनि-जनिभ्यां ध-तौ च" [ हैमोणादिसू० 721] इत्युः तकारश्च, जत्वेव जतुका / जतु करोति जतुकृत् / चक्रेण वर्तते चक्रवर्तनी // 284 // // जायते जन्तुः, “कृसि-कम्यमि-" [ हैमोणादिसू० 773 ] इति तुन् , स्वार्थिके के जन्तुका / जतु करोति जतुकारी, कर्मण्यण् / सङ्गतः स्पर्शोऽस्याः संस्पर्शा। जायतेऽस्यां जननी, "करणाऽऽधारे" [ सिद्ध 0 5.3.129] इत्यनट / जायतेऽस्यां जनी, गौरादित्वाद् ङीः / आह च जन्तुवारा जन्तुकृष्णा जतुका रजनी स्मृता / जननी चैव संस्पर्शा जतुका चक्रवर्तनी // [ धन्व० वर्ग 4 श्लो० 88] इति / एतस्या लोके 'जंतुवार' इति प्रसिद्धिः /