________________ / 154 [ श्लो० २८२भूतोपलक्षिता केशी भूतकेशी / पिशाचाः सन्त्यस्यां पिशाचिका, “अतोऽनेकस्वरात्" [सिद्ध 0 7.2.6] इतीकः // 281 // सुतरां लोमानि श्यति सुलोमशा / भूत इव भूतानां वा जटा अस्या भूतजटा / “पूग्श् पवने" पूयते पूतना, "पृ-पूभ्यां कित् " [हैमोणादिसू० 293] इति 5 कित् तनः / केशाः सन्त्यस्यां केशिका, “अतोऽनेकस्वरात् ' [सिद्ध 0 7.2.6] इतीकः / आह च द्वितीया गन्धमांसी च केशी भूतजटा स्मृता / पैशाची पूतना केशी भूतकेशी सुलोमशा // [धन्व० वर्ग 3 श्लो० 47 ] इति / 10 मांसीभेदोऽयम् / कृष्णेयम् / आह च मांसी जटा भूतकेशी क्रव्यादा नलदा शिवा / कृष्णाऽन्या पूतना केशी गन्धमांसी पिशाचिका // ] इति / मुरायां सुरभिदैत्या गन्धाढ्या गन्धमादनी // 282 // भूरिगन्धा गन्धवती कुटी गन्धकुटी च सा। "मुरत् वेष्टने" मुरति मुरा, दैत्याख्यत्वात् , "नाम्युपान्त्य-" [ सिद्ध० 5.1. 54 ] इति कः, तस्याम् / सुतरां रभते सुरभिः, “पदि-पठि-" [ हैमोणादिसू० 607] इत्यादिना इ: / दैत्ये साधुः दैत्या / यद् विश्वःदैत्योऽसुरे मुरायां तु दैत्या चण्डौषधावपि / ] इति / बाहुलकाद् हस्वाभावः, टित्वाद् ङीः // 282 // भूरिः-प्रचुरो गन्धोऽस्याः भूरिगन्धा / गन्धो विद्यतेऽस्यां गन्धवती / “कुटत् कौटिल्ये" कुटति कुटी, गौरादित्वाद् ङीः / गन्धस्य कुटी-घटी गन्धकुटी / 25 आह च मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी / सुरभिर्भूरिगन्धा च कुटी गन्धकुटी स्मृता // [ धन्व० वर्ग 3 श्लो० 67 ] इति / एतस्या लोके 'एकांगी' इति प्रसिद्धिः /