________________ 282] द्वितीयो गुल्मकाण्डः। तालीसकं तु तालीसं पत्रं तालीसपत्रकम् / तद्वदामलकीपत्रं पत्त्राढचं च सुखादनम् // [धन्व० वर्ग 2 श्लो० 53 ] इति / पथिका तुलसी पत्री कालपत्री त्वचं तथा / लवङ्गपत्री कन्दा स्यादुन्दुरा नलपत्रकम् // ] इति / एतस्य लोके 'तालीसपत्र' इति प्रसिद्धिः / अन्ये तु भेदं मन्यन्ते / आह च तालीसपत्रं तालीसं धात्रीपर्णं शुकोदरम् / अपरं पथिकापत्रं पत्राढचं तुलसी छदम् // ] इति / 10 मांस्यां पेशी कृष्णजटा नलदा जटिला जटा // 28 // तपस्विन्यामिषी हिंसा क्रव्यादी पिशिता च सा। "समांसत्वाद् मांसी" इति क्षीरस्वामी, तस्याम् / “पिशंत् अवयवे" पिंशति पेशिः, "किलि-पिलि-" [हैमोणादिसू० 608] इति इः, ङ्यां पेशी। कृष्णा जटा अस्याः कृष्णजटा / नलं यति नलदा, "आतो डो-" [ सिद्ध 0 5.1.76 ] 15 इति डः / जटाः सन्त्यस्याः जटिला, "काला-जटा-घाटात् क्षेपे" [सिद्ध 0 7.2.23] इतीलः / अभ्रादित्वादप्रत्यये जटा // 280 // अत एव तपो विद्यते अस्याः तपस्विनी, "अस्-तपो-माया-मेधा-" [सिद्ध 0 7.2.47] इति विन् प्रत्ययः / मांसयुक्तत्वाद् आमिषी; अम्यते वा आमिषी, "अमि-मृभ्यां णित्" [हैमोणादिसू० 549 ] इतीषः / हिंस्रा, हिंसकत्वात् / क्रव्यमत्ति 20 क्रव्यादी / पिंशति पिशिता, "कुशि-पिशि-" [ हैमोणादिसू० 212] इति किदितः। आह च-- मांसी कृष्णजटा हिंस्रा नलदा जटिलाऽऽमिषी / जटा च पिशिता मेषी क्रव्यादी च तपस्विनी // [ धन्व० वर्ग 3 श्लो० 45] इति / एतस्या लोके 'छड' इति प्रसिद्धिः / गन्धमांस्यां पुनः केशी भूतकेशी पिशाचिका // 28 // सुलोमशा भूतजटा पूतना केशिकेत्यपि। गन्धोपलक्षिता मांसी गन्धमांसी, तस्याम् / केशी केशाकारत्वात् / क्लिश्यति वा केशी, "क्लिशः के च" [ हैमोगादिसू० 530 ] इति शः / 30 20