________________ सटीक निघण्टुशेषे [279 मस्यति–परिणमति मिस्त्रेया, “गय-हृदयादयः" [ हैमोणादिसू० 370 ] इत्यये निपात्यते, तस्याम् / ताल इव पर्णान्यस्या तालपर्णी, “पाक-कर्ण-पर्ण-" [सिद्ध 0 2.4. 55] इति ङीः / छत्राभपत्रत्वात् छत्रा। शीतं शिनोति शीतशिवः, “प्रह्वाह्व-" [ हैमोणादिसू० 514 ] इति वे निपात्यते / “मिश मश रोषे च" 5 मिश्यते मिसिः, “नाम्युपान्त्य-" [ हैमोणादिसू० 609 ] इति किः, "पृषोदरादित्वाद् दन्त्यः सकारः / “मस्यति-परिणमते मिसिः" इति क्षीरस्वामी // 278 // शालायां भवः शालेयः, गुप्तत्वात् , “भवे”[सिद्ध 0 6. 3. 123] इत्येयण, शालते इति वा, “गय-हृदयादयः" [ हैमोणादिसू० 370] इत्यये निपात्यते / गधु विद्यतेऽत्र मधुरा, "मध्वादिभ्यो रः" [सिद्ध० 7.2. 26] इति रः; माद्यत्यनया 10 वा, "श्वशुर-कुकुन्दुर-" [ हैमोणादिसू० 426 ] इत्युरे निपात्यते, स्वार्थिक के मधु रिका / शालाप्रवेशनमर्हति शालीनः, “शालीन-कौपीन-" [सिद्ध 0 6.4. 185] इति निपात्यते / ताल इव कर्णः-पत्रमस्याः तालकर्णी, “पाक-कर्ण-पर्ण-" [सिद्ध 0 2.4.55] इति ङीः / आह च-. मिस्रया तालकी च तालपर्णी मिसिस्तथा / शालेयः स च शालीनो नाम्ना शीतशिवो मतः // [धन्व० वर्ग 2 श्लो० 4 ] इति / एतस्या लोके 'त्रीहाली' इति प्रसिद्धिः / / पथिकायां तु तुलसी तालपत्री लवङ्गकम् // 279 / / केन्दपत्री त्वचं पत्री तलपत्रकमुन्दुरा। 30 पथोऽस्त्यस्याः पथिका, 'अतोऽनेकस्वरात्" [सिद्ध 0 7.2. 6] इतीकः, तस्याम् / “तुलण उन्माने" तोल्यते तुलसी, “फनस-" [हैमोणादिसू० 573 ] इति निपात्यते। ताल इव पत्राण्यस्यास्तालपत्री * लवङ्गप्रतिकृति लवङ्गकम् , “तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः " [सिद्ध 0 7.1. 108] इति कः // 279 // कन्दाकाराणि पत्राण्यस्याः कन्दपत्री / त्वचति-वृणोति त्वचम् , अच् / 25 पतति पत्री, "नी-दाव्-" [ सिद्ध 0 5.2. 88 ] इति ब्रट् / तल इव पत्रमस्य तलपत्रम् , के तलपत्रकम् / “उदैप् क्लेदने" उनत्ति उन्दुरा, “वाश्यसि-वासि-" हैमोणादिसू० 423] इत्युरः / आह च१ कन्दपत्रत्वचं पत्राऽमलपत्रकमुत्तरा नि० //