________________ 249] द्वितीयो गुल्मकाण्डः / नाकुल्यां स्यादक्षिपीडो नेत्रपीडा विसर्पणी // 276 / / शङ्खिनी इंढपादा च यवतिक्ता यशस्करी। - नकुलस्येयं नाकुली, "तस्येदम्" [ सिद्ध० 6. 3. 160 ] इत्यण् ; न आकुलयति वा, नखादित्वात् साधुः, तस्याम् / अक्ष्णः पीडा अस्याः अक्षिपीडा / एवं नेत्रपीडा / “सृप्लं गतौ" विसर्पति विसर्पणी, अनट् // 276 // शङ्खो विद्यतेऽस्याः शङ्खिनी / दृढः पादो मूलेऽस्याः दृढपादा / यवाः तिक्ता अस्याः यवतिक्ता / यशः करोति यशस्करी / आह च यवतिक्ता शङ्खिनी च दृढपादा विसर्पणी / नाकुली चाक्षिपिण्डा च चित्रमाला यशस्करी / / [धन्व० वर्ग 1 श्लो० 256] इति / एतस्या लोके 'जवासी' इति प्रसिद्धिः / .. तेजस्विन्यां पारिजाता शीताऽश्वघ्नी महौजसी // 277 / / तेजोवती तेजनी च तेजोहा वल्कलेति च / तेजो विद्यतेऽस्याः तेजस्विनी , तस्याम् / पारिणः-पारवतोऽब्धेर्जाता पारिजाता / श्यायते स्म शीता, "श्यः शीव-मूर्ति-" [सिद्ध 0 4.1.97] इति शीरा- 15 देशः / अश्वं हन्ति अश्वघ्नी, “अचित्ते टक्” [ सिद्ध 0 5.1. 83] इति टक् / महद् ओजोऽस्या महौजसी // 277 // तेजो विद्यतेऽस्याः तेजोवती / तेजयति तेजनी / “हृङ् आह्वाने" तेजःशब्देन हूयते तेजोहा / “वलि वल्लि संवरणे" वलते वल्कला, “वलि-पुषेः कलक्" [ हैमोणादिसू० 496] इति कित् कलः प्रत्ययः / आह च-- अश्वघ्नी वल्कला शीता पारिजाता महौजसी / (धन्व० वर्ग 1 श्लो० 256] इति / एतस्या लोके 'तेजवती' इति प्रसिद्धिः / मिस्रयायो तालपर्णी छत्रा शीतशिवो मिसिः // 278 // ... शालेयो मधुरिका च शालीनस्तालकर्ण्यपि / 1 °डा नेत्रमूला विस° नि० // 2 वृद्धपादा च यवतिक्ताऽऽयसोश्वरा नि० // 3 पीताश्वना नि० // 4 °ल्कलेत्यपि नि० //