________________ [274 150 सटीके निघण्टुशेषे भाग्यो बर्बरकः पद्मा वेर्दकोऽङ्गारवल्लिका // 274 // गर्दभशाक ब्राह्मण्यौ हजी ब्राह्मणयष्टिका / आवर्तक्या चर्मरगा विभाण्डी पीठिका लता // 27 // रक्तपुष्पी बिन्दुकिनी स्यान्महाजालिनी च सा। "भृज्जति भार्गी" इति क्षीरस्वामी; "भृगुजा" इत्येके, तस्याम् / “वृणोति वर्वरः” इति क्षीरस्वामी, “बर्ब गतौ, बर्बरः” इत्यन्ये, "ऋच्छि-चटि-वटि-" [ हैमोणादिसू० 397 ] इत्यरः, स्वार्थिके के बर्बरकः / पद्मा पद्माभपुष्पा / "वृकुट वरणे" वृणोति वर्दः, “शा-शपि-मनि-कनिभ्यो दः” [ हैमोणादिसू० 237] इति बहुवचनाद् दः, स्वार्थिके के वर्दकः / अङ्गाराभा वल्ल्योऽस्या अङ्गार10 वल्ली, स्वार्थिके के अङ्गारवल्लिका // 274 // गर्दभानां शाक इव गर्दभशाकः, गर्दभानां उपभोग्यत्वात् / ब्राह्मणी पवित्रत्वात् / हन्ति रोग हब्जी, “उटजादयः" [ हैमोणादिसू० 134 ] इत्यजे निपात्यते / ब्राह्मणानां यष्टिका ब्राह्मणयष्टिका / आवर्तके साध्वी आवर्तक्या, "तत्र साधौ" [ सिद्ध 0 7. 1. 15] इति यः / चर्मेव रङ्गोऽस्याः चर्मरगा। विभा15 युक्तान्यण्डान्यस्या विभाण्डी / पीठोऽस्त्यस्याः पीठिका / लाति लता, "पृषिरञ्जि-"[ हैमोणादिसू० 208 ] इति किदतः // 275 // रक्तानि पुष्पाण्यस्या रक्तपुष्पी, "असत्काण्ड-प्रान्त-" [ सिद्ध 0 2. 4. 56 ] इति ङीः / बिन्दुकाः सन्त्यस्याः बिन्दुकिनी / महाजालोऽस्त्यस्याः महाजालिनी / आह च भार्गी गर्दभशाकश्च पद्मा ब्राह्मणयष्टिका / अङ्गारवल्ली हञ्जी च वो बर्बरकस्तथा // शुक्रमाता च कासनी भृगुजा भार्गवपर्णिनी / [ धन्व० वर्ग 1 श्लोक 68-69 ] इति / तथा च25 हञ्जिका ब्राह्मणी पमा भार्गी ब्राह्मणयष्टिका // अङ्गारवल्ली वालेयशाक-वर्वर-वर्दकाः / [ अमर० का० 2 वर्ग 4 श्लो० 89-90 ] इति / एतस्या लोके 'भाडंगि' इति प्रसिद्धिः / 1 वन्दको नि० // 2 पिच्छिका नि० // 20